रिप्रवाहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रिप्रवाहः, त्रि, पापवाहकः । यथा, -- “क्रव्यादमग्निं प्रहिणोमि दूरम् । यमराज्यं गच्छतु रिप्रवाहः ॥” इति भवदेवभट्टोक्तकुशण्डिकापद्धतिः ॥ “रिप्रं पापं वहतीति रिप्रवाहः ।” इति तट्टी- कायां गुणविष्णुः ॥ “स प्रहितः क्रव्यादग्निः यमराज्यं गच्छतु यमस्य राज्यं प्रति व्रजतु । किम्भूतः रिप्रवाहः रिप्रमिति पापनाम । रिप्रं पापं वहति नाशयति रिप्रवाहः ।” इति वाज- मनेयसंहिताभाष्ये महोधरः । ३५ । १९ ॥ “रिप्रवाहः रिप्रं पापं तस्य वोढा सोऽग्निः यमराज्ञः यमो राजा येषां तान् यमराजकान् अन्यप्रदेशान् गच्छतु प्राप्नोतु ।” इति ऋक्भाष्ये सापणः । १० । १६ । ९ ॥)
