रुक्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुक्, [च्] स्त्री, (रुच् + भावे क्विप् ।) शोभा । (यथा, माघे । ४ । ६६ । “दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै- र्व्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ॥”) द्युतिः । (यथा, किराते । ५ । ४५ । “क्षिपति योऽनुवनं विततां बृहद्- बृहतिकामिव रौचनिकीं रुचम् ॥”) इच्छा । इति मेदिनी ॥ (यथा, महाभारते । १३ । १२४ । २८ । “नानाबुद्धिरुचो लोके मनुष्यान्नूनमिच्छसि । ग्रहीतुं स्वगुणैः सर्व्वांस्तेनासि हरिणः कृशः ॥” तेजः । यथा, रघुः । ९ । ६ । “अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥”) शारिकाशुकवाक् । इति शब्दरत्नावली ॥
रुक्, [ज्] स्त्री, (रुज् + क्विप् ।) रोगः । इत्य- मरः । २ । ६ । ५१ ॥ (यथा, भागवते । ६ । १ । ८ । “दोषस्य दृष्ट्वा गुरु लाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥” रुजति पीडयतीति । पीडादायके, त्रि । यथा, महाभारते । ५ । ८४ । १ । “प्रयान्तं देवकीपुत्त्रं परवीररुजो दश । महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥” अथवा परस्य वीराणां रुक् यैरिति ॥)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुक् (for 2. See. under 1. रुज्col. 3) , in comp. for 2. रुच्.
रुक् (for 1. See. col. 1) , in comp. for 2. रुज्.
