रुक्मम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुक्मम्, क्ली, (रोचते शोभते इति । रुच् + “युजि- रुचितिजां कुश्च । उणा० १ । १४५ । इति मक् कवर्गश्चान्तादेशः ।) काञ्चनम् । (यथा, रामायणे । २ । ७० । २१ । “रुक्मनिष्कसहस्रे द्धे षोडशाश्वशतानि च । सत्कृत्य केकयीपुत्त्रं कैकेयो धनमादिशत् ॥”) धुस्तूरम् । इत्यमरः ॥ लोहम् । इति मेदिनी । मे, २८ ॥ (अस्य पर्य्यायो यथा, -- “कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ ॥” इति वैद्यकरत्नमालायाम् ॥) नागकेशरम् । इति राजनिर्घण्टः ॥ (वर्णे, पुं । इति उज्ज्वलदत्तः । १ । १४५ ॥ दीप्तिशीले, त्रि । वथा, ऋग्वेदे । ५ । ६१ । १२ । “दिवि रुक्म इवोपरि ॥” “दिवि द्युलोके रुक्मो रोचमान आदित्य इव ।” इति तद्भाष्ये सायणः ॥)
