रुक्मिणीव्रत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुक्मिणीव्रतम्, क्ली, (रुक्मिण्या व्रतम् ।) व्रत- विशेषः । यथा, -- सूत उवाच । “जामदग्न्यः समाकर्ण्य रमां तां पुत्त्रगर्द्धिनीम् कल्केरभिमतं बुद्ध्वा कारयद्रुक्मिणीव्रतम् ॥ व्रतेन तेन च रमा पुत्त्राढ्या सुभगा सती । सर्व्वभोगेन संयुक्ता बभूव स्थिरयौवना ॥ शौनक उवाच । विधानं ब्रूहि मे सूत व्रतस्यास्य च यत् फलम् । पुरा केन कृतं धर्म्म्यं रुक्मिणीव्रतमुत्तमम् ॥ सूत उवाच । शृणु ब्रह्मन् ! राजपुत्त्री शर्म्मिष्ठा वार्षपर्व्वणी । अवगाह्य सरोनीरं सोमं हरमपश्यत ॥ सा सखीभिः परिवृता देवयान्या च संगता । शम्भुभीत्या समुत्थाय पर्य्यधुर्व्वसनं द्रुतम् ॥ तत्र शुक्रस्य कन्या या वस्त्रव्यत्यासमात्मनः । संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि ! ॥ गृहाण रुक्मिणीनाथ सनाथं कुरु मां प्रभो ॥ कर्पूरागुरुगन्धाढ्यं परमानन्ददायकम् । धूपं गृहाण वरद वैदर्भ्या प्रियया सह ॥ भक्तानां गेहसक्तानां संसारध्वान्तनाशनम् । दीपमालोकय विभो जगदालोकनादर ॥ श्यामसुन्दर पद्माक्ष पीताम्बर चतुर्भुज । प्रपन्नं पाहि देवेश रुक्मिण्या सहिताच्युत ॥ इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता । शर्म्मिष्ठा मिष्टवचना कृताञ्जलिरुवाच ताः ॥ शर्म्मिष्ठोवाच । राजपुत्त्रीं दुर्भगां मां स्वामिना परिवर्ज्जिताम् । त्रातुमर्हथ हे देव्यो व्रतेनानेन कर्म्मणा ॥ श्रुत्वा तु ता चस्तस्याः कारुण्याच्च कियत् कियत् । पूजोपकरणं दत्त्वा कारयामासुरादरात् ॥ व्रतं कृत्वा तु शर्म्मिष्ठा लब्ध्वा स्वामिनमीश्वरम् । सूत्वा पुत्त्रान् सुसन्तुष्टा समभूत् स्थिरयौवना ॥ सीता चाशोकवनिकामध्ये सरमया सह । व्रतं कृत्वा पतिं लेभे रामं राक्षसनाशनम् ॥ बृहदश्वप्रसादेन कृत्वेदं द्रौपदी व्रतम् । पतियुक्ता दुःखमुक्ता बभूव स्थिरयौवना ॥ तथा रमा सिते पक्षे वैशाखे द्वादशीदिने । जामदग्न्याद्व्रतं चक्रे पूर्णं वर्षचतुष्टयम् ॥ पट्टसूत्रं करे बद्ध्वा भोजयित्वा द्बिजान् बहून् । भुक्त्वा हविष्यं क्षीराक्तं सुमिष्टं स्वामिना सह ॥ बुभुजे पृथिवीं सर्व्वामपूर्व्वां स्वजनैर्वृता । सा पुत्त्रौ सुषुवे साध्वी मेघमालवलाहकौ ॥ देवानामुपकर्त्तारौ यज्ञदानतपोव्रतौ । महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥ व्रतवरमिति कृत्वा सर्व्वसम्पत्समृद्धा भवति विदिततत्त्वा पूजिता पूर्णकामा । हरिचरणसरोजद्बन्द्वभक्तैकताना व्रजति गतिमपूर्ब्बां ब्रह्मविज्ञैरगम्याम् ॥” इति कल्किपुराणे रुक्मिणीव्रतम् ३१ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुक्मिणीव्रत/ रुक्मिणी--व्रत n. a partic. observance and N. of a ch. of the KalkiP. , Cat.
