सामग्री पर जाएँ

रुचिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रुचिः, स्त्री, (रुच्यते इति । रुच् + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । सच कित् ।) अभिष्वङ्गः । अनुरागः । आशक्तिर्वा । स्पृहा । (यथा, किराते । १० । ६२ । “रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे ॥” “अम्लो रुचिकरो हृद्यः प्रीणनो वह्निदीपनः ॥” इति वैद्यकराजवल्लभे द्रव्यगुणव्याख्यायाम् ॥) अभिलाषः । गभस्तिः । किरणः । इत्यमर- भरतौ ॥ शोभा । इति मेदिनी ॥ (यथा, रघुः । ५ । ६७ । “लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽयि त्वदाननरुचिं विजहाति चन्द्रः ॥”) बुभुक्षा । इति हेमचन्द्रः ॥ गोरोचना । इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्लक्षणं यथा । नायिकाया नायकस्य संमुखे जान्वो- रुपर्य्युपविश्य वक्षसि वक्षो दत्त्वा यदवस्थानम् । इति कामशास्त्रम् ॥

रुचिः, पुं, (रोचते शोभते इति । रुच् + इन् । सच कित् ।) प्रजापतिविशेषः । स च रौच्य- मनुपिता । यथा, -- मार्कण्डेय उवाच । “रुचिः प्रजापतिः पूर्व्वं निर्म्ममो निरहङ्कृतिः । यत्रास्तमितशायी च चचार पृथिवीमिमाम् ॥ अनग्निमनिकेतन्तमेकाहावसथाश्रयम् । विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥ पितर ऊचुः । वत्स कस्मात् त्वया पुण्यो न कृतो दारसंग्रहः । स्वर्गापवर्गहेतुत्वाद्बन्धस्तेनानिशं विना ॥ गृही समस्तदेवानां पितॄणाञ्च तथार्हणाम् । ऋषीणामतिथीनाञ्च कुर्ब्बन् लोकानुपाश्नुते ॥ स्वाहोच्चारणतो देवान् स्वधोच्चारणतः पितॄन् । विभजन्नन्नदानेन भूताद्यानतिथीनपि ॥ स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि । आवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिने दिने ॥ अनुत्पाद्य सुतान् देवानसन्तर्प्य पितॄंस्तथा । भूतादींश्च कथं मौढ्यात् सुगतिं गन्तुमिच्छसि ॥ रुचिरुवाच । परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा । भवत्यतो मया पूर्ब्बं न कृतो दारसंग्रहः ॥ प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः । ममत्वपङ्कदिग्धोऽपि चिन्ताम्भोभिर्व्वरं हि तत् ॥” इत्यादि ॥ पितर ऊचुः । “युक्तं प्रक्षालनं कर्त्तुमात्मनो नियतेन्द्रियैः । अस्माकमेतत् पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥ यस्मिन् गृहेऽपि लिखितमेतत्तिष्ठति नित्यदा । सन्निधातं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः । श्रावणीयं महाभाग अस्माकं तुष्टिकारकम् ॥” इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवे ॥ * मार्कण्डेय उवाच । “ततस्तस्मान्नदीमध्यात् समुत्तस्थौ मनोरमा । प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥ सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥ प्रश्रयावनता सुभ्रूः प्रम्लोचा वै वराप्सराः ॥ अतीवरूपिणी कन्या मत्सुता तपतांवर । जाता वरुणपुत्त्रेण पुष्करेण महात्मना ॥ तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् । मनुर्म्महामतिस्तस्यां समुत्पस्यति ते सुतः ॥ मार्कण्डेय उवाच । तथति तेन चाप्युक्ता तस्मात्तोयाद्वपुष्मतीम् । उज्जहार ततः कभ्यां मालिनीं नाम नामतः ॥ नद्याश्च पुलिने तस्मिन् स मुनिर्मुनिसत्तम ! । जग्राह पाणिं विधिवत् समानाय्य महामुनीन् ॥ तस्यां तस्य सुतो जज्ञे महावीर्य्यो महामतिः । रौच्योऽभवत् पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥ तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये । तनयाश्च नृपाश्चैव ते सम्यक् कथितास्तव ॥ धर्म्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः । नृणां भवत्यसन्दिग्धमस्मिन् मन्वन्तरे श्रुते ॥ पितृस्तवं तथा श्रुत्वा पितॄणाञ्च तथा गणान् । सर्व्वान् कामानवाप्नोति तत्प्रसादान्नरो मुने ॥” इति मार्कण्डेयपुराणे रौच्येमन्वन्तरं समाप्तम् ॥ गारुडे ८९ । ९० अध्यायेऽप्येवमस्ति ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रुचिः [ruciḥ], (-ची f.) [रुच्-कि वा ङीप्]

Light, lustre, splendour, brightness; वियद्व्यापी तारागणगुणित फेनोद्गमरुचिः Śi.vamahimna 17; रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः Śi. 16.71; R.5.67; Me.15.

A ray of light; as in रुचिभर्तृ q. v.

Appearance, colour, beauty (usually at the end of comp.); पटलं बहिर्बहलपङ्करुचि Śi.9.19; सिन्दूरैः कृतरुचयः सहेमकक्ष्याः Ki.7.8.

Taste, relish; as in रुचिकर.

Zest, hunger, appetite.

Wish, desire, pleasure; स्वरुच्या 'at will or pleasure.'

Liking, taste; विमार्गगायाश्च रुचिः स्वकान्ते Bv.1.125 'liking or love'; न स क्षितीशो रुचये बभूव; R.6.44; भिन्नरुचिर्हि लोकः 3; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् M.1.4; oft. in comp. in the sense of 'indulging in', 'devoted or addicted to'; हिंसारुचेः Māl.5.29; अर्थरुचेः Mu.1.

Passion, close application to any object.

A kind of yellow pigment (गोरोचना).

A kind of coitus. -m. N. of a प्रजापति; जातो रुचेरजनयतसुयमान् सुयज्ञः Bhāg.2.7.2. -Comp. -करa.

tasteful, savoury, palatable.

exciting desire; रुचिकरमपि नार्थवद् बभूव Ki.1.62.

stomachic, tonic.-धामन् m. the sun. -प्रद a. appetizing. -फलम् a pear.-भर्तृ m.

the sun; रुचिभर्तुरस्य विरहाधिगमात् Śi.9.17.

a husband.

"https://sa.wiktionary.org/w/index.php?title=रुचिः&oldid=219628" इत्यस्माद् प्रतिप्राप्तम्