रुद्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुद्रः, पुं, (रोदयतीति । रुद् + णिच् + “रोदेर्णि लुक् च ।” उणा० २ । २२ । इति रक् । णेश्च लुक् ।) आदित्यपत्रवृक्षः । इति राजनिर्घण्टः ॥ शिवः । (यथा, महाभारते । १३ । १७ । ४६ । “त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्व्विभुः ॥”) गणदेवताविशेषः । इत्यमरः ॥ अयं अग्नि- मूर्त्तिः । यथा रुद्राय अग्निमूर्त्तये नमः । इति तिथ्यादितत्त्वे शिवपूजापद्धतिः ॥ स च ब्रह्मणः क्रोधरूपः सृष्टिकाले भ्रूमध्याज्जातः । तत्- सृष्टः भूतप्रेतपिशाचादिः । अयमेवान्ते संहार- कर्त्ता । इति भागवतम् ॥ * ॥ अथैकादश- रुद्रनामानि यथा । अजः १ एकपात् २ अहि- ब्रघ्नः ३ पिणाकी ४ अपराजितः ५ त्र्यस्वकः ६ “अन्यापदेशविनिवेशविदग्धबुद्धि- श्रीभावसिंहनरसिंहनियोगयोगात् । सम्पादितो विविधभावविकासभाजां प्रीत्यै भृशं भवतु भावविलास एषः ॥” सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः । कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥ विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् । काव्यालापविदग्धानां मुदं निर्म्मातु निर्म्मितिः ॥”)
