रुद्रकवच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुद्रकवचम्, क्ली, (रुद्रस्य कवचम् ।) शिवनाम- समूहेन सर्व्वाङ्गरक्षकम् । यथा, -- “वक्ष्यामि रुद्रकवचमाद्यं प्राणस्य रक्षणम् । अहोरात्रं महादेव रक्षार्थं देवनिर्म्मितम् ॥ ओ~ रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः । कपर्द्दी दक्षिणे पातु वामपार्श्वे तथा हरः ॥ शिवः शिरो मे च पातु ललाटे नीललोहितः । नेत्रयोस्त्र्यम्बकः पातु मुखे पातु महेश्वरः ॥ कर्णयोर्नासिकायाञ्च जिह्वायां शम्भुरव्ययः । श्रीकण्ठस्तु गले पातु बाह्वोः पातु पिणाकधृक् ॥ हृदयं मे महादेव ईश्वरस्तु तथोदरम् । नाभौ कुक्षौ कटिस्थाने पातु सर्व्वं प्रजापतिः ॥ ऊरू जानू महादेवः पादौ पातु महेश्वरः । सर्व्वं रक्षतु भूतेशः सर्व्वगात्राणि यत्नतः ॥ परशुं शूलखट्टाङ्गं दिव्यास्त्रं रौद्रमेव च । नमस्काराय देवेशं रक्ष मां जगदीश्वरः ॥ रक्षोभ्यो ग्रहपीडाभ्यो रोगशोकार्णवेषु च । पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल ॥ जन्म मृत्युर्ज्जरा व्याधिः कामः क्रोधः शमो दमः । लोभमोहमदाश्चापि त्यजन्तु भुवनेश्वर ॥ त्वं गतिस्त्वं मतिश्चैव त्वं वुद्धिस्त्वं परायणः । कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे ॥ इत्येतद्रुद्रकवचं पठतः पापनाशनम् । महादेवप्रसादेन दुर्व्वासःपरिकीर्त्तितम् ॥ न तस्य पापलेशोऽस्ति भयं तस्य न विद्यते । प्राप्नोति सुखमारोग्यं पुण्यमात्मप्रबन्धनम् ॥ पुत्त्रार्थी लभते पुत्त्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नु- यात् ॥ देहे चेदं हृदि न्यस्य शिवकल्पो भवेन्नरः । मुच्यते सर्व्वपापेभ्यो रुद्रलोकं स गच्छति ॥” इति स्कन्दपुराणे रुद्रकवचं समाप्तम् । इति तन्त्रसारः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुद्रकवच/ रुद्र--कवच n. N. of wk.
