रुद्रगण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुद्रगणः, पुं, (रुद्रस्य गणः ।) शिवपार्षदसमूहः । यथा, -- “अपरे रुद्रनामानो जटाचन्द्रार्द्धमण्डिताः । देवेन्द्रस्य नियोगेन वर्त्तन्ते त्रिदिवे सदा ॥ तेषां संख्या चैककोटिस्ते सर्व्वे बलवत्तराः । कुर्व्वन्ति हि सदा सेवां हरस्य सततं गणाः ॥ विस्मयन्ति च पापिष्ठान् धर्म्मिष्ठान् पालयन्ति च । अंनुगृह्णन्ति सततं धृतपाशुपतव्रतान् ॥ विघ्नांश्च सततं हन्ति योगिनां प्रयतात्मनाम् । षट्त्रिंशत्कोटयश्चैव हरस्य सकला गणाः ॥ वराहगणनाशार्थं हिताय जगतां तथा । शङ्करस्याथ सेवायै समुत्पन्ना इमे गणाः ॥” इति कालिकापुराणे २९ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुद्रगण/ रुद्र--गण m. the class of (beings called) रुद्रs(See. under रुद्र) VarBr2S.
