सामग्री पर जाएँ

रुद्रचण्डी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रुद्रचण्डी, स्त्री, (रुद्रा चण्डी ।) रुद्रयामलोक्त- देवीमाहात्म्यम् । यथा । “अस्य चण्डिका- महामन्त्रस्य महारुद्र ऋषिरनुष्टुप् छन्द- श्चण्डिका देवता रुद्रचण्डीजपे विनियोगः । ओ~ नमश्चण्डिकायै । श्रीशङ्कर उवाच । चण्डिकां हृदंये न्यस्य स्मरणं यः करोत्यपि । अनन्तफलमाप्नोति देवि चण्डीप्रसादतः ॥ रविवारे यदा चण्डीं पठेदागमसम्मताम् । नवावृत्तिफलं तस्य जायते नात्र संशयः ॥ सोमवारे यदा चण्डीं पठेद्यस्तु समाहितः । सहस्रावृत्तिपाटस्य फलं जानीहि सुव्रते ॥ कुजवारे जगद्धात्रि पठेद्यामलसम्मताम् । शतावृत्तिफलं तस्य बुधे लक्षफलं भवेत् ॥ गुरौ यदि महामाये लक्षयुग्मफलं ध्रुवम् । शुक्रे देवि जगद्धात्रि चण्डीपाठेन शङ्करि ॥ ज्ञेयं तुल्यफलं दुर्गे यदि चण्डीं समाहितः । शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम् ॥ अतएव जगद्धात्रीं यश्च चण्डीं समभ्यसेत् । स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत् ॥ आरोग्यं विजयं सौख्यं वस्त्ररत्नप्रवालकम् । पठनाच्छ्रवणाच्चैव जायते नात्र संशयः ॥ धनं धान्यं प्रवालञ्च वस्त्ररत्नविभूषितम् । चण्डीस्मरणमात्रेण कुर्य्यात् सर्व्वं महेश्वरि ॥ ओ~ घोरचण्डी महाचण्डी चण्डमुण्डविखण्डिनी । चण्डवक्त्रा महामाया महादेवविभूषिता ॥ चतुर्वक्त्रा इत्यपि पाठः । रक्तदन्ता वरारोहा महासुरविमर्द्दिनी । तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा ॥ गुह्यकाली जगद्धात्री चण्डी च यामलोद्भवा । श्मशानवासिनी देवी घोरचण्डी भयानका ॥ शिवा घोरा रुद्रचण्डी महेशगणभूषिता । जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी ॥ विद्या श्रीपरमा विद्या चण्डी च वैरमर्द्दिनी । दुर्गे दुर्गा शिवा घोरा चण्डहन्त्री प्रचण्डिका ॥ महेशी वगला देवी भैरवी चण्डविक्रमा । प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्द्दिनी ॥ रणघण्टा चण्डघण्टा रणरामवरप्रदा । तारिणी भद्रकाली च शिवा घोरा भयानका ॥ विष्णुप्रिया महामाया नन्दगोपगृहोद्भवा । मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी ॥ विमला भैरवी निद्रा जातिरूपा मनोहरा । तृष्णा निद्रा क्षुधा माया शक्तिरूपा मनोहरा ॥ तस्यै देव्यै नमस्तस्यै सर्व्वरूपेण संस्थिता । प्राणप्रिया जातिमाया निद्रारूपा महेश्वरी ॥ या देवी सर्व्वभूतेषु सर्व्वरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ एतां चण्डीं जगद्धात्रीं ब्राह्मणस्तु सदा पठेत् । मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया ॥ मदमत्ता सदा नित्या भूतप्रमथसङ्गता । मध्यभागा महारामा धान्यदा धनरत्नदा ॥ वस्त्रदा मणिदा राज्यप्रदा विषयवर्द्धिका । मुक्तिदा सर्व्वदा चण्डी महाविपदनाशिनी ॥ इमाञ्च चण्डीं पठते मनुष्यः शृणोति भक्त्या परमां शिवस्य । चण्डीं धरण्यामतिपुण्ययुक्तः पटेच्च गच्छेद्धरमन्दिरं शुभम् ॥ यद्यन्मनोरथान् दुर्गे करोति धरणीतले । रुद्रचण्डीप्रसादेन किं न सिध्यति भूतले ॥ रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा । रुद्रभक्ता रुद्ररूपा रुद्रभूषासमन्विता ॥ शिवचण्डी महारक्ता शिवप्रीतिगणान्विता । भैरवी परमा विद्या महाविद्या च षोडशी ॥ सुन्दरी परमा विद्या महात्रिपुरसुन्दरी । गुह्यकाली भद्रकाली महाकालविमर्द्दिनी ॥ कृष्णा कृष्णस्वरूपा सा जननी मोहकारिणी । अतितन्द्रा महालज्जा सर्व्वमङ्गलदायिनी ॥ घोरचण्डी भीमरूपा भीमा देवी मनोहरा । वगला वगला सिद्धिदायिका सर्व्वदा शिवा ॥ स्मृतिरूपा कीर्त्तिरूपा बुद्धिरूपा मनोहरा । विष्णुप्रिया शक्रपूज्या योगेन्द्रैरपि सेविता ॥ भयानका महासूक्ष्मा देवी भयविनाशिनी । चण्डिका शक्तिहस्ता च कौमारी सर्व्वकामदा ॥ वाराही च वराहस्य इन्द्राणी शक्रपूजिता । माहेश्वरी महेशस्य महेशगणभूषिता ॥ चामुण्डा नारसिंही च नृसिंहशत्रुनाशिनी । सर्व्वशत्रुप्रशमनी सर्व्वारोग्यप्रदायिनी ॥ नैव दुःखं भयं किञ्चित् पठनात् श्रवणाज्जनः । इति सत्यं महेशानि सत्यं सत्यं वदाम्यहम् ॥ नेव शोकं नैव रोगं नैव दुःखं भयन्तथा । आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम् ॥ महेशानि वरारोहे ब्रवीमि सत्यमुत्तमम् । अभक्ताय न दातव्यं मम प्राणाधिकं शुभम् ॥ मम भक्ताय शान्ताय शिवविष्णुप्रियाय च । दद्यात् कदाचिद्देवेशि सत्यं सत्यं न संशयः ॥ अनन्तफलमाप्नोति शिवचण्डीप्रसादतः । अश्वमेधवाजपेयराजसूयशतेन वै । तृप्ताः स्युः पितरो देवास्तथा च सर्व्वदेवताः ॥ दुर्गे त्वां मृण्मयीज्ञानं रुद्रयामलपुस्तकम् । मन्त्रमक्षरसंज्ञानं यः करोति नराधमः ॥ अतएव महेशानि किं वक्ष्ये तव सन्निधौ ॥ लम्बोदराधिकश्चण्डीपठनाच्छ्रवणात् जनः । तत्त्वमसीति वाक्येन मुक्तिमाप्नोति दुर्लभाम् ॥” इति श्रीरुद्रयामले हरगौरीसंवादे रुद्रयामल- चण्डी समाप्ता ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रुद्रचण्डी¦ स्त्री रुद्रयामलोक्ते देवी{??}राहात्मप्रतिपापकग्रन्थे

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रुद्रचण्डी/ रुद्र--चण्डी f. a form of दुर्गाCat.

रुद्रचण्डी/ रुद्र--चण्डी f. N. of a section in the रुद्र-यामलand of a स्तोत्र.

"https://sa.wiktionary.org/w/index.php?title=रुद्रचण्डी&oldid=220047" इत्यस्माद् प्रतिप्राप्तम्