सामग्री पर जाएँ

रुधिराख्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रुधिराख्यम्, क्ली, (रुधिरमिति आख्या यस्य ।) मणिभेदः । यथा, -- “हुतभुग्रूमादाय दानवस्य यथेप्सितम् । नर्म्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले ॥ तत्रेन्द्रगोपकलितं शुकवक्त्रवर्णं संस्थानतः प्रकटपीलुसमानमात्रम् । नानाप्रकारविहितं रुधिराख्यरत्न- मुद्धृत्य तस्य खलु सर्व्व समानमेव ॥ मध्येन्दुपाण्डरमतीवविशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् । सैश्वर्य्यभृत्यजननं कथितं तदेव पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम् ॥” इति गारुडे ७८ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रुधिराख्यम्&oldid=161871" इत्यस्माद् प्रतिप्राप्तम्