सामग्री पर जाएँ

रूढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रूढः, पुं, (रुह + क्तः ।) प्रकृतिप्रत्ययार्थमनपेक्ष्य शाब्दबोधजनकः शब्दः । यथा, -- “मुख्यो लाक्षणिको गौणः शब्दः स्यादौपचा- रिकः । यौगिको योगरूढो वा रूढो वा मुख्य एव सः ॥” इति शाब्दिकाः ॥ * ॥ अपि च । रूढं नाम लक्षयति विभजते च । “रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते । नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥” यन्नाम यादृशार्थे सङ्केतितमेव न तु यौगिकमपि तद्रूढम् । योगरूढन्तु पङ्कजादिकं न तथा रूढा- नामेव च संज्ञापदेनाभिलप्यते । न तु रूढा- दिवत् संज्ञापि नाम्नोऽवान्तरभेदः । येन विभागव्याघातः स्यात् । संज्ञायाश्च त्रयो भेदाः नैमित्तिकी पारिभाषिकी औपाधिकी चेति । पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वा- दिति वक्ष्यते ॥ ये तु रूढस्य नाम्नश्चतुर्विधत्व- माहुस्तन्मतमुपन्यस्यति । “जातिद्रव्यगुणस्पन्दैर्धर्म्मैः सङ्केतवत्तया । जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः ॥” गोगवयादीनां गोत्वादिजात्या । पश्वाढ्यादीनां लाङ्गुलधनादिद्रव्येण । धन्यपिशुनादीनां पुण्य- द्वेषादिगुणेन । चलचपलादीनाञ्च शब्दानां कर्म्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यमेव रूढा- नामिति । यदुक्तं दण्ड्याचार्य्यैः । “शब्दैरेभिः प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषान्तु शब्द उक्तश्चतुर्विधः ॥” इति तदेतज्जड-मूक-मूर्खादीनामन्यशून्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः ॥ * ॥ नैमित्तिकसंज्ञां लक्षयति । “जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता । जातिमात्रे हि सङ्के ताद्व्यक्तेर्भाणं सुदुष्करम् ॥” यन्नामजात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्रादिः । सा हि गोत्वचैत्रत्वादि- जात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोत्वा- दिजातिमात्रम् । गोपदं गोत्वे सङ्केतितमित्या- कारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवा- देरन्वयानुपपत्तेश्च एकशक्तत्वग्रहस्यान्यानुभाव- कत्वेऽतिप्रसङ्गात् ॥ * ॥ पारिभाषिकीमौपाधि- कीञ्च संज्ञां क्रमेण लक्षयति । “उभयावृत्तिधर्म्मेण संज्ञा स्यात् पारिभाषिकी । औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते ॥” उभयावृत्तिधर्म्मावच्छिन्नसङ्केतवती संज्ञा पारि- भाषिकी । यथाकाशडित्थादिः । या चानुगतो- पाध्यवच्छिन्नसङ्केतवती संज्ञा सा त्वौपाधिकी । यथा भूतदूतादिः । सा हि सचेतनवृत्तिविशेष- गुणवत्त्ववार्त्ताहारकत्वाद्यनुगतोपाधिपुरस्कारे- णैव प्रवर्त्तते । इति शब्दशक्तिप्रकाशिका ॥

"https://sa.wiktionary.org/w/index.php?title=रूढः&oldid=161916" इत्यस्माद् प्रतिप्राप्तम्