रूप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्यम्, क्ली, (आहतं रूपं अस्यास्तीति । रूप् + “रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति यप् ।) आहतस्वर्णरजतम् । इत्यमरः । २ । ९ । ९१ ॥ हेम रूप्यञ्च आहतं अश्ववराहपुरुषादि- रूपमुत्थापयितुं निर्घातिकया ताडितं रूप्य- मुच्यते रूपाय आहतं रूप्यं ढघे कादिति ष्ण्यः । इति भरतः ॥ * ॥ धातुविशेषः । रूपा इति भाषा ॥ (यथा, महाभारते । ५ । ३९ । ७९ । “सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥”) तत्पर्य्यायः । शुभ्रम् २ वसुश्रेष्ठम् ३ रुधिरम् ४ चन्द्रलोहकम् ५ श्वेतकम् ६ महाशुभ्रम् ७ रजतम् ८ तप्तरूपकम् ९ चन्द्रभूति १० सितम् ११ तारम् १२ कलधूतम् १३ इन्द्रलोहकम् १४ रौप्यम् १५ धौतम् १६ सौधम् १७ चन्द्र- हासम् १८ । इति राजनिर्घण्टः ॥ खर्ज्जूरम् १९ दुर्व्वर्णम् २० श्वेतम् २१ रङ्गबीजम् २२ राज- रङ्गम् २३ लोहराजकम् २४ । इति शब्दरत्ना- वली ॥ कलधौतम् २५ । इति जटाधरः ॥ अस्य गुणाः । स्निग्धत्वम् । कषायत्वम् । अम्लत्वम् । विपाके मधुरत्वम् । सरत्वम् । वातपित्तहरत्वम् । रुच्यत्वम् । वलीपलितनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥ अथ रूप्यस्योत्पत्तिनामलक्षण- गुणाः । “त्रिपुरस्य वधार्थाय निर्निमेषैर्व्विलोकनैः । निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ततस्तूल्का समपतत्तस्यैकस्माद्विलोकनात् ।

रूप्यम्, त्रि, (प्रशस्तं रूपं अस्यास्तीति । रूप + “रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति यप् ।) सुन्दरम् । इति मेदिनी । ये, ५० ॥ (क्ली, उपमेयम् । यथा, साहित्यदर्पणे १० परि- च्छेदे समासोक्त्यलङ्कारे । “तत्र हि तिमिरांशुकयोर्रूप्यरूपकभावो द्बयो- रावरकत्वेन स्फुटमिति ॥” * ॥ पुं, प्रत्ययविशेषः । स च तत आगत इत्येतस्मिन्विषये “हेतुमनुष्ये- भ्योऽन्यतरस्यां रूप्यः ।” ४ । ३ । ८१ । इति सूत्रेण हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां भवति ॥ यथा समादागतं समरूप्यम् । देवदत्तरूप्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्य नपुं।

आहतरूप्यकहेमादिः

समानार्थक:रूप्य

2।9।91।2।2

स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते। ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्.।

पदार्थ-विभागः : धनम्

रूप्य नपुं।

रजतम्

समानार्थक:दुर्वर्ण,रजत,रूप्य,खर्जूर,श्वेत

2।9।96।2।3

अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः। दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

रूप्य नपुं।

प्रशस्तम्

समानार्थक:मतल्लिका,मचर्चिका,प्रकाण्ड,उद्ध,तल्लज,सत्,रूप्य

3।3।161।1।1

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि। न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

पदार्थ-विभागः : , शेषः

रूप्य नपुं।

रूप्यकम्

समानार्थक:कलधौत,श्वेत,रजत,रूप्य

3।3।161।1।1

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि। न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

 : दीनार_नामकनाण्यविशेषः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्य¦ न॰ रूपाय आहन्यते स्वर्णादि यत्। अलङ्कारादिनि-र्म्माणाय आहन्थमाने

१ स्वर्णे

२ रजते च अमरः। स्वार्थेयत्।

३ रजतमात्रे रजतशब्दे

४७

८९ पृ॰ दृश्यम्।

४ सुन्दरे त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्य¦ mfn. (-प्यः-प्या-प्यं) Handsome, beautiful. n. (-प्यं)
1. Silver.
2. Wrought silver.
3. Wrought gold. E. रूप form, colour, &c., and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्य [rūpya], a. [रूप-यत्]

Beautiful, lovely; P.V.2.12.

Stamped; impressed.

प्यम् Silver.

Silver (or gold) bearing stamp, a stamped coin, a rupee.

Wrought gold; यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् Mb.12.28.11.

Collyrium. -Comp. -अचलः N. of the mountain Kailāsa. -अध्यक्षः a master of the mint. -द a. one who gives silver; रूप्यदो रूपमुत्तमम् (आप्नोति) Ms.4.23. -धौतम् silver. -शतमानम् a particular weight (= 3 1/2 palas).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्य mfn. well-shaped , beautiful Pa1n2. 5-2 , 120

रूप्य mfn. stamped , impressed ib.

रूप्य mfn. to be denoted (or capable of being denoted) figuratively or metaphorically Sa1h.

रूप्य mfn. ( ifc. )formerly in the possession of or possessed by Pa1n2. 5-3 , 54

रूप्य mfn. proceeding from or originating with(= तस्माद् आगतः) ib. iv , 3 , 82

रूप्य m. N. of a man g. तिका-दि

रूप्य m. of a mountain S3atr.

रूप्य n. silver Mn. MBh. etc.

रूप्य n. wrought silver or gold , stamped coin , rupee L.

रूप्य n. collyrium L.

"https://sa.wiktionary.org/w/index.php?title=रूप्य&oldid=503902" इत्यस्माद् प्रतिप्राप्तम्