रेखाभूमिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रेखाभूमिः, स्त्री, (रेखास्थिता भूमिः ।) लङ्का- सुमेरुपर्व्वतयोर्म्मध्यसूत्रगतदेशः । यथा, -- “यल्लङ्कोज्जयिनीपुरोपरिकुरुक्षेत्रादिदेशान् स्पृशन् सूत्रं मेरुगतं बुधैर्न्निगदिता सा मध्यरेखा भुवः । आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखो- दयात् स्यात्तस्मात् क्रियते तदन्तरभुवं खेटेष्वृणं स्वं फलम् ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ अन्यच्च । रेखोक्ता सूर्य्यसिद्धान्ते । यथा रेखा- मधिकृत्य । “राक्षसालयदेवौकः शैलयोर्म्मध्यसूत्रगाः । रौहितकमवन्ती च तथा सन्निहितं सरः ॥” अस्यार्थः । लङ्कासुमेरुपर्व्वतयोर्म्मध्यसूत्रगा देशा रेखासंज्ञिताः । तान् देशानाह । राहि- तकदेशोऽवन्तीदेशः सन्निहितं सरः कुरुक्षेत्र- ञ्चेत्यथः । रेखायाः पूर्ब्बदेशे परदेशे च यथा- संख्यं सूर्य्योदयकालात् परकालं पूर्ब्बकालञ्च वारप्रवृत्तिः स्यादित्यर्थः । एतेनैतदुक्तं भवति रेखासंज्ञकदेशस्थलोका यदा सूर्य्यं पश्यन्ति तदैव सर्व्वदेशे वारप्रवृत्तिरित्यर्थः । तत्र रेखा पूर्ब्बस्थाः सन्निहितत्वादादौ सूर्य्यं पश्यन्ति तद- नन्तरञ्च रेखास्थाः । अतो रेखापूर्ब्बे सूर्य्यो- दयात् परं वारः । तथा रेखास्थैः सूर्य्ये दृष्टे सति पश्चात् रेखापरस्थाः पश्यन्ति अतो रेखा- परदेशे सूर्य्योदयात् पूर्ब्बं वार इत्यथः । तत्र कालपरिमाणमाह । रेखातो यावन्ति देशा- न्तरयोजनानि तत्सम्मिताभिर्व्विघटीभिः पलैः पादहीनाभिः चतुर्थभागहीनाभिर्व्वारप्रवृत्तिः स्यादित्यर्थः । देशान्तरसाधनप्रकारस्तु सूर्य्य- सिद्धान्ते उक्तः । अत्र तु संक्षेपेण किञ्चित् कथ्यते । गौडे पञ्चदशाधिकशतयोजनानि ११५ । दक्षिणराढे गङ्गातीरे दशाधिकशतम् ११० । भैरवीतीरे विंशत्यधिकशतम् १२० । वङ्गे सुवर्ण- ग्रामादौ चत्वारिंशदधिकशतम् १४० । वारा- णस्यामष्टोत्तरशतम् १०८ देशान्तरम् । एव- मन्यत्राप्यूह्यम् । तन्मतन्तु लोकसंगृहीतमिति किन्तु सूर्य्यसिद्धान्ते अर्द्धरात्रावेव वारप्रवृत्ति- रुक्ता । यथा, -- “वारप्रवृत्तिः प्राग्देशे क्षपार्द्धेऽत्यधिके भवेत् । तद्देशान्तरनाडीभिः पश्चादूने विनिर्द्दिशेत् ॥” इति दीपिकाटीकायामर्थकौमुद्यां गोविन्दा- नन्दः ॥
