रेचकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रेचकः, पुं, (रेचयतीति । रिच् + णिच् + ण्वुल् ।) यवक्षारः । इति त्रिकाण्डशेषः ॥ जयपाल- वृक्षः । इति राजनिर्घण्टः ॥ क्रीडार्थजल- निःक्षेपयन्त्रम् । पिच्कारी इति भाषा । यथा, “सिच्यमानोऽच्युतस्ताभिर्म्महिषीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीमिर्यक्षराडिव ॥” इति श्रीभागवते । १० । ९० । ९ ॥ (ध्यातृनासिकया प्राणायामाङ्गमुच्यमानवायुः । यथा, भागवते । ३ । २८ । ९ । “प्राणस्य शीधयेन्मार्गं पूरकुम्भकरेचकैः ॥” अस्यान्यद्विवरणं प्राणायामशब्दे द्रष्टव्यम् ॥)
