रेणुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रेणुः, पुं, स्त्री, (रिणातीति । री गतिरेषणयोः + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः ।) धूलिः । इत्यमरः ॥ (यथाह कश्चित् । “मानुषीकरणरेणुरस्ति ते पादयोरिति कथा प्रत्ःइयसी । क्षालयामि तव पादपङ्कजं नाथ ! दारुदृशदोस्तु का भिदा ॥”)
रेणुः, पुं, (री + णुः ।) पर्पटः । रेणुका । पांशुः । इति राजनिर्घण्टः ॥ (यथा, रघुः । ९ । २३ । “दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥” विडङ्गः । तत्पर्य्यायो यथा, -- “जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतरु लम् । क्रिमिशत्रुः विडङ्गश्च गर्द्दभं तच्च केवलम् ॥” इति वैद्यकरत्नमालायाम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रेणुः [rēṇuḥ], m., f. [रीयतेः णुः नित् Uṇ.3.38]
Dust, an atom of dust, sand &c.; तुरगखुरहतस्तथा हि रेणुः Ś.1.32.
The pollen of flowers.
A particular measure.-Comp. -उत्पातः rising of dust. -गर्भः an hour-glass.-पदवी a path of dust. -रूषित a. soiled with dust. (-तः) an ass. -वासः a bee. -सारः, -सारकः camphor.
