सामग्री पर जाएँ

रेफः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रेफः, पुं, (रिफ्यते इति । रिफ + घञ् । यद्वा, “रादिफन् ।” इत्यनेन वर्णस्वरूपार्थे रशब्दादि- फन्प्रत्ययः । तथाच “रेफ इत्यौणादिकः ।” इति कृत्सु ५ पादे दुर्गः ।) रवर्णः । (यथा, -- “परैर्गतो यः शिरसापि धार्य्यते समागते सद्मनि याति नम्रताम् । गुणैः परेषां द्बिगुणत्वमीहते । रेफेण तुल्या प्रकृतिर्म्महात्मनाम् ॥” इत्युद्भटः ॥) रागः । इति शब्दरत्नावली ॥ (शब्दः । यथा, भागवते । ८ । २० । २५ । “श्रियञ्च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥”)

रेफः, त्रि, (रिफ + “अवद्यावमाधमार्वरेफाः कुत्- सिते ।” उणा० ५ । ५४ । इति अप्रत्ययेन निपातितः ।) कुत्सितः । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=रेफः&oldid=161997" इत्यस्माद् प्रतिप्राप्तम्