सामग्री पर जाएँ

रोगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोगः, पुं, (रुज्यतेऽनेनेति । रोजनमिति वा । रुज + घञ् । यद्वा, रुजतीति । रुज् + “पद- रुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति कर्त्तरि घञ् ।) कुष्ठौषधम् । इति मेदिनी । गे, २३ ॥ देहभङ्गकारकः । तत्पर्य्यायः । रुक् २ रुजा ३ उपतापः ४ व्याधिः ५ गदः ६ आमयः ७ । इत्यमरः । २ । ६ । ५१ ॥ अपाटवः ८ आमः ९ आतङ्कः १० भयः ११ उपघातः १२ भङ्गः १३ अर्त्तिः १४ तमोविकारः १५ ग्नानिः १६ क्षयः १७ अनार्ज्जवः १८ मृत्युभृत्यः १९ । इति राज- निर्घण्टः ॥ अमः २० । इति जटाधरः ॥ मान्द्यम् २१ आकल्पम् २२ । इति हेमचन्द्रः ॥ * ॥ अस्य निदानादिर्यथा, -- धन्वन्तरिरुवाच । “सर्व्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः । आत्रेयाद्यैर्मुनिवरैर्यथापूर्व्वमुदीरितम् ॥ रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्टमामयः । यक्ष्मातङ्कगदावाधाः शब्दाः पर्य्यायवादिनः ॥ निदानं पूर्व्वरूपाणि रूपाण्युपशयस्तथा । संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ॥ लिङ्गमव्यक्तमल्पत्वात् व्याधीनां तद्यथातथम् । तदेव व्यक्ततां यातं रूपमित्यभिधीयते ॥ संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः । हेतुव्याधिविप्रर्य्यस्तं विपर्य्यस्तार्थकारिणाम् ॥ औषधान्नविहाराणां उपयोगं सुखावहम् । विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ॥ विपरीतोऽनुपशयो व्याधिसात्म्याभिसंज्ञितः । यथा दुष्टेन दोषेण तथा चात्मविसर्पता ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोगः [rōgḥ], [रुज्-घञ्]

A disease, sickness, malady, distemper, infirmity; सन्तापयन्ति कमपथ्यभुजं न रोगाः H.3.11; भोगे रोगभयम् Bh.3.35.

A diseased spot.

Costus Speciosus (Mar. कोष्ठ). -Comp. -अन्तकः, -हृत् m. a physician. -आयतनम् the body. -आर्त, -अन्वित, -ग्रस्त, -भाज् a. afflicted with disease, sick. -उपशमः cure or alleviation of disease. -उल्बणता the raging of diseases. -घ्न a. curative, medicinal.

घ्नम् a medicine.

the science of medicine. -ज्ञः a physician. -ज्ञानम् knowledge of disease. -पालकः one who has the care of the sick. -प्रेष्ठः fever (v. l. for रोगश्रेष्ठः). -भूः f. the body. -राज् fever. -राजः consumption. -लक्षणम् the symptoms of a disease; pathology. -शमः recovery from sickness. -शान्तकः a physician.

शान्तिः alleviation or cure of a disease. -शिला red arsenic. -श्रेष्ठः fever. -संघातः an attack of fever. -हम् a drug. -हन् m. a physician. -हर a. curative; संसाररोगहरमौषधमद्वितीयम् Stotra. (-रम्) a medicine. -हारिन् a. curative. (-m.) a physician; also रोगहृत्.

"https://sa.wiktionary.org/w/index.php?title=रोगः&oldid=222283" इत्यस्माद् प्रतिप्राप्तम्