रोगलक्षण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोगलक्षणम्, क्ली, (रोगाणां लक्षणम् ।) निदानम् । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोगलक्षण¦ न॰ रोगो लक्ष्यते ज्ञायतेऽनेन लक्ष--करणे ल्युट्। रोगानुमापके धातुवैषम्यहेतुके चिह्नभेदे निदाने राजनि
“रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता। रोगा दुःखस्यदातारो ज्वरप्रभृतयो हि ते। ते च स्वाभाविकाःकेक्षि-त्केचिदागन्तवः स्मृताः। मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः। तत्र स्वाभाविकाः शरीरस्वभावादेव जाताः क्षुत्पिपासासुषुप्त्यादिजरामृत्युप्रभृतयः अथ वा स्वस्वभावादुत्पत्तेर्जाता स्वाभाविकाःसहजा इति यावत्। ते च जन्मान्धत्वादयः। आगन्तवोऽभिघातादिजनिताः। अथ वा जन्मोत्तरभाविनःकामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्यशोकविषादेर्ष्या-सूयामात्सर्य्यप्रभृतयः। अथ वा उन्मादापस्मारमूर्च्छाभ्रममोहतमःसंन्यासप्रभृतयः। कायिकाः पाण्डु-रोगप्रभृतयः
“कर्म्मजाः काथिताः केचिद्दोषजाःसन्ति चापरे। कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधस्मृताः”। तत्र कर्म्म{??}व्याधयः यत्प्राक्तनन्दुष्कमप्रबलङ्केवलंभोगनाश्यम् प्रायश्चिचनाश्यं वा ततंजाताः नतु दुष्ट वातादिदौषेण जनितास्तथा।
“यथा-शास्त्रन्तु निर्णीतो यथाव्याधि चिकित्सितः। न शायाति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः”। दोषजाः। मिथ्याहारविहारप्रकुपितवातपित्तकफजाः। ननु मिथ्या-हारविहारिणामपि प्राक्तनमुकृतेन नैरुज्य दृश्यत[Page4814-a+ 38] एव। ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत्कथं दोषजा इत्युच्यते। दोषजेष्वपि वस्तुतः आदिकारणं दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहारदूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्तेइति समाधिः। कर्मदोषोद्भवाः
“स्वल्पदोषा गरीयांसो-ऽधर्मास्ते कमदोषजाः”। अत्र कारणं दुष्कर्म प्रबलंयतो दोषाल्पत्वेऽपि व्याधेर्गरीयस्त्वन्तत्कर्मक्षयादेव क्षीणंभवति। दोषाः स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्तएवेति दोषाणां कारणता मन्यन्त इति।
“कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः। कर्मदोषोद्भवा यान्तिकर्मदोषक्षये क्षयम्”। दोषजाः स्वस्वभेषजैरिति दोष-जष्यादिकारणं दुष्कर्म तद्भेषजाथं द्रव्यक्षयादिजनितदुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनित-दुःखभोगेन च क्षयं यान्ति। शेषा दुष्टा हेतवोदोषास्ते स्वस्वभंषजैः क्षयं यान्तीत्यर्थंः।
“साध्या याप्याअसाध्याश्च व्याधयस्त्रिविधाः स्मृताः। सुखसाध्यःकष्टसाध्यो द्विविधः साध्य उच्यते”। याप्यलक्षणमाह
“यापनीयन्तु वृत्तायां सद्यो यश्च विनश्यति। प्राप्तः-क्रिया धारयति सुखिनं याय्यमातुरम्। प्रषतिष्यदिवा-गार स्तम्भो यत्नेन योजितः। साध्या याप्यत्वमायान्तियाप्याश्चासाध्यतान्तथा। घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्”। अक्रियावतां चिकित्सारहितानाम्। अथोपद्रवस्य लक्षणम्।
“रोगारम्भकदोषस्य प्रकोपादुप-जातते। बोऽन्यो विकारः स बुधैरुपद्रव इहोदितः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोगलक्षण¦ n. (-ण) The symptoms or sign of a disease or of its progress. E. रोग a disease, and लक्षण mark.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोगलक्षण/ रोग--लक्षण n. the sign or symptoms of a -ddisease , pathology Cat.
रोगलक्षण/ रोग--लक्षण n. N. of wk.
