रोगहरद्रव्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोगहरद्रव्यम्, क्ली, (रोगहरं रोगनाशकं द्रव्यम् ।) रोगनाशकवस्तु । यथा, -- धन्वन्तरिरुवाच । “द्रव्याणि मधुरादीनि वक्ष्ये रोगहराण्यहम् । शालिषष्टिकगोधूमक्षीरञ्चैव तथा मधु ॥ मज्जाशृङ्गाटकयवकशेर्व्वारुकगोक्षुरम् । गम्भारी पौष्करं बीजं द्राक्षा खर्ज्जूरकं वला ॥ नारिकेलेक्ष्वात्मगुप्ता विदारी च पियालकम् । मधुकं तालकुष्माण्डं मुख्योऽयं मधुरो गणः ॥ मूर्च्छादाहप्रशमनः षडिन्द्रियप्रसादनः । कृमिकृत् कफकृत् वृष्य एकोऽत्यर्थं निषेवितः ॥ श्वासकाशास्यमाधुर्य्यस्वरघातार्व्वुदानि च । गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ * ॥ दाडिमामलकाम्रञ्च कपित्थकरमर्द्दकौ । मातुलुङ्गाम्रातकञ्च वदरं तित्तिरीफलम् ॥ दधितक्रं काञ्जिकञ्च लकुचं चाम्लवेतसम् । अम्ला दन्तशठायुक्तो जारणः पाचनो रसः ॥ क्लेदनो वातकृत् वृष्यो विदाही चानुलोमनः । अम्लोऽत्यर्थं सेव्यमानः कुर्य्याद्वे दन्तहर्षकम् ॥ शरीरस्य च शैथिल्यस्वरकुण्ठनकृद्भवेत् । छिन्नभिन्नव्रणादीनि पाचयत्यग्निभावतः ॥ * ॥ लवणादियवक्षारः सर्ज्जकादिश्च लावणः । शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥ मागरोधी मार्दवकृत् स एकः परिषेवितः । गात्रकण्डूकोठशोफवैवर्ण्यं जनयेद्रसः । रक्तवातं रक्तपित्तं पुंस्त्वेन्द्रियरु जादिकम् ॥ * ॥ व्योषशिग्रुं मूलकञ्च देवदारु च कुष्ठकम् ॥
