रोचकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोचकः, पुं, (रोचयतीति । रुच् + णिच् + ण्वुल् ।) क्षुधा । तत्पर्य्यायः । बुभुक्षा २ अशना ३ जिघत्सा ४ रुचिः ५ । इति हेम- चन्द्रः । ३ । ५७ ॥ कदली । इति शब्दरत्ना- वली ॥ राजपलाण्डुः । अवदंशः । इति राज- निर्घण्टः ॥ ग्रन्थिपर्णभेदः । भण्डिउर इति नेपालदेशे ख्यातः । तत्पर्य्यायः । निशाचरः २ धनहरः ३ कितवः ४ गणहासकः ५ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कटुत्वम् । पाके कटुत्वम् । लघुत्वम् । तीक्ष्णत्वम् । हृद्य- त्वम् । हिमत्वम् । कुष्ठकण्डूकफानिलरक्षोऽश्री स्वेदमेदोऽस्रज्वरगन्धविषव्रणनाशित्वञ्च । इति भावप्रकाशः ॥ (काचकूप्यादिकारकः । यथा, रामायणे । २ । ८३ । १३ । “मायूरकाः क्राकचिका वेधका रोचका- स्तथा ॥” “रोचकाः काचकुप्यादिकर्त्तारः इति कतकः ।” इति तट्टीका ॥) रुचिकारके, त्रि ॥ (यथा, सुश्रुते । १ । ४६ । मांसवर्गे । “संग्राही रोचको बल्यस्तेषामेणो ज्वरापहः ॥”)
