रोचनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोचनः, पुं, (रोचयतीति । रोचि + नन्द्यादित्वात् ल्युः ।) कूटशाल्मलिः । इत्यमरः ॥ (तस्य पर्य्यायो यथा, -- “कुत्सितः शाल्मलिः प्रोक्तो रोचनः कूट- शाल्मलिः ॥” इति भावप्रकाशे । १ । १ ॥ काम्पिल्लः । तत्पर्य्यायो यथा, -- “काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) श्वेतशिग्रुः । पलाण्डुः । आरग्वधः । करञ्जः । अङ्कोठः । दाडिमः । इति राजनिर्घण्टः ॥ (देवयोनिविशेषः । यथा, हरिवंशे । १६६ । ७५ । “कुम्भाण्डः कुम्भमूर्द्धा च रोचनो वैकृतोग्रहः ॥” दक्षिणापुत्त्राणामन्यतमः । स च स्वायम्भुवमन्व- न्तरे देवविशेषः । इति भागवतम् । ४ । १ । ७ ॥ स्वारोचिषमन्वन्तरे इन्द्रः । इति च तत्रैव । ८ । १ । २० ॥ भारतवर्षान्तर्गतपर्व्वतविशेषः । यथा, मार्कण्डेये । ५७ । १३ । “तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥”) त्रि, रोचकः । इति मेदिनी । ने, ११६ ॥ (यथा, सुश्रुते । १ । ४६ । शाकवर्गे । “वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ॥” दीप्तिशाली । यथा, हरिवंशे । १२९ । ३५ । “अन्तश्चरं रोचनं चारुशाखं महाबलं धर्म्मनेतारमीड्यम् । सहस्रनेत्रं शतवर्म्माणमुग्रं महादेवं विश्वसृजं नमस्ये ॥” शोभमानः । यथा, भट्टिः । ६ । ७३ । “भृङ्गालिकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण । रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् ॥” अनुरागकरः । यथा, भागवते । १ । १० । ११ । “सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥”)
