सामग्री पर जाएँ

रोचमानः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोचमानः, पुं, (रोचते इति । रुच् + शानच् ।) अश्वग्रीवास्थरोमावर्त्तः । यथा, -- “श्रीवृक्षो हृदयावर्त्तो रोचमानो गलोद्भवः ॥” इति त्रिकाण्डशेषः ॥ (यथा, माधे । ५ । ४ । “अश्वाः ष्यधुर्वसुमतीमतिरोचमाना- स्तूर्णं पयोधय इवोर्म्मिभिरापतन्तः ॥” नृपविशेषः । यथा, महाभारते । १ । ६७ । १८ । “अश्वग्रीव इति ख्यातः सत्त्ववान् यो महा- सुरः । रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥” दीप्यमाने, त्रि । यथा, कथासरित्सागरे । ७४ । ७८ । “रोचमानैः समायुक्तचूडामण्यङ्गदादिभिः । गन्धर्व्वकुलसम्भूतिसंसिद्धैरिव भूषितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=रोचमानः&oldid=162082" इत्यस्माद् प्रतिप्राप्तम्