सामग्री पर जाएँ

रोदनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोदनम्, क्ली, (रुद् + ल्युट् ।) क्रन्दनम् । (यथा, चाणक्यशतके । ६२ । “दुर्ब्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥”) अस्रु । इति मेदिनी । ने, ११९ ॥ तस्य शुभाशुभं यथा, -- “अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् । प्रचुराश्रु दीनं रूक्षञ्च रुदितं न सुखावहम् ॥” इति गारुडे ६६ अध्यायः ॥ कपिलाधेनूनां नेत्राम्बुना रत्नसमूहो जातः । यथा, -- “युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः ॥” इत्युपक्रम्य । “तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव ह ॥” रोदनाश्रुपतनेन मृतानां नरकं स्यात् । यथा, -- “ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्त्र साम्प्र- तम् । रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २७ अध्यायः ॥ मृतमुद्दिश्य रोदननिषेधो यथा, -- “श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्य्या विधानतः ॥” इति शुद्धितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोदनम् [rōdanam], [रुद्-ल्युट्]

Weeping; see रुदन.

A tear or tears.

"https://sa.wiktionary.org/w/index.php?title=रोदनम्&oldid=222611" इत्यस्माद् प्रतिप्राप्तम्