सामग्री पर जाएँ

रोदस्यौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोदस्यौ, स्त्री, भूमिस्वर्गौ । यथा, -- “प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥” इत्यमरः । ३ । ३ । २२८ ॥ “भूर्भूमिः द्यौराकाशं एते सहिते विगृहीते च रोदसीरोदःशब्दयोर्वाच्येते इति भूद्यावौ परा- मृष्येते एतेन ईवन्तसान्तशब्दद्वयेन एकवच- नान्तेनापि भूद्यावौ समुदिते उच्येते । ‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ॥’ इति विश्वः ॥ ‘रोदसी रोदसा सार्द्धं पृथ्वीस्वर्गे दिवि क्षितौ ॥’ इत्यजयः ॥ रोदसीत्यव्ययमप्यस्ति । यथा । द्यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति चेति ।” इति तट्टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=रोदस्यौ&oldid=162102" इत्यस्माद् प्रतिप्राप्तम्