रोपणचूर्णम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोपणचूर्णम्, क्ली, (रोपणस्य चूर्णम् ।) नयनाञ्जन- विशेषः । यथा, भावप्रकाशे । अथ रोपणचूर्णम् । “शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा । गृह्णीयात् तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥ शुष्कं तच्च जलं सर्व्वं पर्पटीसन्निभं भवेत् । विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥ कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत् । अञ्जयेन्नयनं तेन सर्व्वदोषोपशान्तये ॥ समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः ॥”
