सामग्री पर जाएँ

रोपणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोपणम्, क्ली, विमोहनम् । रुपधातोर्भावेऽनट्प्रत्य- येन निष्पन्नम् ॥ जननम् । प्रादुर्भावः । ञ्यन्त- रुहधातोः पङादेशे अनट्प्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ (यथा, सुश्रुते । १ । १५ । “सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत्श्लेष्मा पञ्चधा प्रविभक्त उदकर्म्मानुग्रहं करोति ॥”) अञ्जनविशेषः । यथा, -- “रोपणं रसकं पिष्ट्वा सम्यक् संप्लाव्य वारिणा । गृह्णीयात्तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥ शुष्कञ्च तज्जलं सर्व्वं पर्पटीसन्निभं भवेत् । विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥ कर्पूरस्य रसन्तत्र दशमांशेन निक्षिपेत् । अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः ॥” इति भावप्रकाशः ॥ (त्रि, रोपकः । यथा, सुश्रुते । ६ । १८ । “लेखनात् त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः ॥” व्रणरोगे मांसाङ्कुरजननार्थप्रक्रियादिकम् । तद्- यथा, -- “आदौ विम्लापनं कुर्य्याद्द्वितीयमवसेचनम् । तृतीयमुपनाहञ्च चतुर्थीं पटलक्रियाम् ॥ पञ्चमं शोधनञ्चैव षष्ठं रोपणमिष्यते । एते क्रमा व्रणस्योक्ताः सप्तमो वै कृतापहः ॥ निम्बपत्रतिलैः कल्को मधुना क्षतशोधनः । रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः ॥” इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रोपणम् [rōpaṇam], [रुह् णिच् हस्य पः ल्युट्]

The act of erecting, setting up or raising.

Planting.

Healing.

A healing application (used for sores). -णः An arrow.

"https://sa.wiktionary.org/w/index.php?title=रोपणम्&oldid=222765" इत्यस्माद् प्रतिप्राप्तम्