रोपणीवर्त्तिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोपणीवर्त्तिः, स्त्री, नेत्राञ्जनभेदः । यथा । अथ रोपणीवर्त्तिः । “अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः । जातीपुष्पाणि पञ्चाशन्मरिचानि च षोडश ॥ सूक्ष्मं पिष्ट्वाम्बुना वर्त्तिः कृता कुसुमिकाभिधा । तिमिरार्ज्जुनशुक्राणां नाशिनी मांसवृद्धिनुत् । एतस्या अञ्जने प्रोक्ता मात्रा सार्द्धहरेणुका ॥” कुसुमिकावटी रोपणी । इति भावप्रकाशः ॥
