रोमकपत्तनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोमकपत्तनम्, क्ली, (रोमकं पत्तनमिति कर्म्म- धारयः ।) देशविशेषः । रुम् इति पारस्य- भाषा । यथा, -- “लङ्काकुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनश्च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति ॥” इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥
