रोमकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोमकम्, क्ली, (रोमे कायतीति । कै + कः ।) पांशुलवणम् । (यथा, सुश्रुते । १ । ४२ । “सैन्दवसौवर्च्चलविडपाक्यरोमकसामुद्रकपक्त्रिम- यवक्षारोषप्रसूतसुवर्च्चिकाप्रभृतीनि समासेन लवणो वर्गः ॥”) अयस्कान्तभेदः । इति राज- निर्घण्टः ॥ (रोमैव । जनपदविशेषः । तद्देश- वासिनि, पुं भूम्नि । यथा, महाभारते । २ । ५० । १५ । “औष्णीकानन्तवासांश्च रोमकान् पुरुषादकान् ॥”)
