रोमाञ्चितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोमाञ्चितः, त्रि, (रोमाञ्चः सञ्जातोऽस्येति । रोमाञ्च + “तदस्य सञ्जातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।) जात- पुलकः । रोमाञ्चविशिष्टः । तत्पर्य्यायः । हृष्ट- रोमा २ । इति त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेये । १०० । २० । “स च शान्तिगते वह्नौ परितुष्टेन चेतसा । हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः ॥”)
