रोहिणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोहिणम्, क्ली, (रुह् + “रुहेश्च ।” उणा० २ । ५५ । इति इनन् ।) कालभेदः । इत्युणादि- कोषः ॥ स तु दिवसीयनवममुहूर्त्तः । पूर्ब्बाह्ण- श्राद्धस्य गौणकालत्वेनोत्तरावधिः । अपराह्ण- श्राद्धस्य पूर्ब्बावधिः । एकोद्दिष्टश्राद्धस्य समा- पनकालः । रौहिणञ्चास्य नामान्तरम् । यथा । अत्र पूर्ब्बाह्णे श्राद्धमभिधाय रौहिणन्तु न लङ्घयेदित्यभिधानेन पूर्ब्बाह्णश्राद्धस्य सङ्गवात् परो रौहिणपर्य्यन्तगौणपूर्व्वाह्णकालः प्रतीयते तेन रौहिणं पूर्ब्बाह्णश्राद्धस्य गौणकालत्वेनो- त्तरावधिः अपराह्णश्राद्धस्य पूर्ब्बावधिरित्यव- गम्यते । रौहिणन्तु दिवसस्य नवममुहूर्त्तः । तस्य ज्योतिषोक्तरोहिणीदैवतत्वात् रौहिणत्व- मिति । व्यासः । “आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत् ॥” इति श्राद्धतत्त्वम् ॥
