रोहिण्यष्टमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोहिण्यष्टमी, स्त्री, (रोहिणीयुक्ता अष्टमी ।) रोहिणीनक्षत्रयुक्तभाद्रकृष्णाष्टमी । यथा, -- “कृष्णाष्टम्याञ्च रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः । कार्य्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्म- जम् ॥ उपीषितोऽर्च्चयेन्मन्त्रैस्तिथिभान्ते च पारणम् ॥ योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमो नमः ॥ स्नानमन्त्रः । यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः ॥ अर्च्चनस्य । विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय गोविन्दाय नमो नमः ॥ शयनस्य । सर्व्वाय सर्व्वेश्वराय सर्व्व- पतये सर्व्वसम्भवाय गोविन्दाय नमो नमः ॥ पारणस्य । स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीन्तथा । शङ्खे तोयं समादाय सपुष्पफलचन्दनम् । जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् ॥ क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ॥ श्रियै वसुदेवाय बलदेवाय नन्दाय यशोदायै । अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् । वासुदेवं हृषीकेशं नृसिंहं दैत्यसूदनम् ॥ वाराहं पुण्डरीकाक्षं श्रीकान्तमजमव्ययम् । दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥ गोविन्दमच्युतं देवमनन्तमपराजितम् । अधोक्षजं जगद्बीजं सर्गस्थित्यन्तकारकम् ॥ अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् । नारायणञ्चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ पीताम्बरधरं दिव्यं वनमालाविभूषितम् । श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् ॥ यं देवं देवकी देवी वसुदेवादजीजनत् । भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः । नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत् पुनः ॥ त्राहि मां सर्व्वपापघ्न दुःखशोकार्णवात् प्रभो । देवकीनन्दन श्रीश हरे संसारसागरात् ॥ दुर्वृत्तांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत् । सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसाग- रात् ॥ पुष्कराक्ष निमग्नोऽहं महत्यज्ञानसागरे । त्राहि मां देवदेवेश त्वामृतेऽन्यो न रक्षिता ॥ स्वजन्म वासुदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ शान्तिरस्तु शिवञ्चास्तु धनर्द्धिख्यातिराज्य- भाक् ॥” इति गारुडे १३२ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोहिण्यष्टमी/ रोहिण्य्-अष्टमी f. the 8th day in the dark half of the month भाद्रwhen the moon is in conjunction with the नक्षत्र-R रोहिणीCat.
