सामग्री पर जाएँ

रौद्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रौद्रः, पुं, (रुद्रस्यायमिति । रुद्र + अण् ।) सूर्य्य- तेजः । तत्पर्य्यायः । घर्म्मः २ । इति मेदिनी । रे, ८० ॥ प्रकाशः ३ द्योतः ४ आतपः ५ । इत्यमरः ॥ तस्य गुणाः । “आतपः कटुको रूक्षः स्वेदमूर्च्छातृषावहः । दाहवैवर्ण्यजननो नेत्ररोगप्रकोपणः ॥” इति राजवल्लभः ॥ * ॥ सप्तरौद्रा यथा, -- “जठरः पिङ्गलो रौद्रो घोराख्यः कालसंज्ञितः । अग्निनामा हतो रौद्रः सप्त रौद्राः प्रकी- र्त्तिताः ॥” ग्रन्थान्तरे सप्तमो रौद्रः प्राणदाहः ॥ तेषां फलानि यथा, -- “पिङ्गलो रौद्रनामा च कालरूपः प्रजाक्षयम् । स्पर्शने बहुरोगः स्यात् सर्व्वजीवसमुद्भवः ॥ जठरो रौद्रनामा च घोरधूम्रञ्च कारयेत् । व्रणादिपित्तरोगञ्च नानाक्लेशकरो नृणाम् ॥ अग्निर्नाम्ना यदा वर्षे रौद्रो भवति नान्यथा । उत्तापेन क्षितिं शुष्येत् नराणां रोगदो भवेत् । रौद्रनामा महारौद्रो यत्राब्दे च भवेद्ध्रुवम् । चित्तोद्वेगं व्रणं कुर्य्यान्नानारोगसमन्वितम् ॥ घोरनामा महारौद्रो घोरधूम्रञ्च कारयेत् । उत्तापेन सदा दग्धं नानारोगसमन्वितम् ॥ कालनामा महारौव्र उत्तापे पीडनं सदा । नानारोगसमायुक्तं व्रणादिकण्डुकं भवेत् ॥” इति ज्योतिषम् ॥ रसविशेषः । इति मेदिनी । रे, ८० ॥ तद्विवरणं क्लीवलिङ्गरौद्रशब्दे द्रष्टव्यम् । हेमन्त ऋतुः । इति हेमचन्द्रः ॥ यमः । इति धरणिः ॥ (कार्त्ति- केयः । यथा, महाभारते । १ । १३८ । १३ । “आग्नेयः कृत्तिकापुत्त्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान् देवः सर्व्वदेवमयो गुहः ॥”)

रौद्रः, त्रि, (रुद्र + अण् ।) तीव्रः । (यथा, रुग्वि- निश्चयव्याख्याने विजयरक्षितेन हरिवंशोक्त- ज्वरवर्णनवचनमुक्तम् । “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥”) भीषणः । इति मेदिनी । रे, ८० ॥ (यथा, महा- भारते । २ । ६४ । ५० । “तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् । प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥”) रुद्रसम्बन्धिनि च ॥

"https://sa.wiktionary.org/w/index.php?title=रौद्रः&oldid=162240" इत्यस्माद् प्रतिप्राप्तम्