लक्षणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणा, स्त्री, (लक्षण + टाप् ।) सारसी । इति मेदिनी । णे, ७५ ॥ हंसी । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (अप्सरोविशेषः । यथा, महाभारते । १ । १२३ । ५९ । “अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥”) शक्यसम्बन्धः । यथा, -- “लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः ॥” इति भाषापरिच्छेदः ॥ गङ्गायां घोष इत्यादौ गङ्गापदस्य शक्यार्थे प्रवाहरूपे घोषस्यान्वयानुपपत्तिस्तात्पर्य्यानुप- पत्तिर्व्वा यत्र प्रतिसन्धीयते तत्र लक्षणया तीरस्य बोधः । सा च शक्यसम्बन्धरूपा । तथा हि प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृही- तत्वात्तीरस्य स्मरणं ततः शाब्दबोधः । इति सिद्धान्तमुक्तावली ॥ * ॥ अपि च । “जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिका- दिकाः । लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा ॥” काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते । यथा तीरत्वादिना गङ्गादि- पदस्य । काचिच्छक्यलक्षोभयवृत्तिना शक्य- भूत्वा षोडशभेदाः । तत्र गूढः वाक्यार्थभावना- परिपक्वबुद्धिविभवमात्रवेद्यः । यथा उपकृतं बहु तत्रेत्यादि । अगूढोऽतिस्पष्टतया सर्व्वजन- वेद्यः । यथा उपदिशति कामिनीनां यौवन- मद एव ललितानि । अत्रोअप्दिशतीत्यनेन आविष्करोतीति लक्ष्यते आविष्कारातिशय- श्चाभिधेयवत् स्फुटं प्रतीयते ॥ * ॥ “धर्म्मिधर्म्मगतत्वेन फलस्यैता अपि द्बिधा ॥” ७ ॥ एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्म्मगतत्वेन धर्म्मिगतत्वेन च प्रत्येकं द्विधा भूत्वा द्बात्रिंशद्भेदाः । क्रमेणोदाहरति । “स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व्वं सहे वैदेही तु कथं भविष्यति ह हा हा देवि ! धीरा भव ॥” अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्म्मिणि लक्ष्ये तस्यैवातिशयः फलम् । गङ्गायां घोष इत्यत्र तटादिषु लक्ष्येषु शीतत्वपावनत्वादिरूपधर्म्म- स्यातिशयः फलम् ॥ * ॥ “तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥” रूढावष्टौ फले द्वात्रिंशदिति चत्वारिंशल्लक्षणा- भेदाः ॥ * ॥ किञ्च । “पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।” ८ । ता अनन्तरोक्ताः । अत्र पदगतत्वेन यथा गङ्गायां घोषः । वाक्यगतत्वेन यया उपकृतं बहु तत्रेति । एवमशीतिप्रकारा लक्षणा । इति साहित्यदर्पणम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणा f. See. s.v.

लक्षणा f. aiming at , aim , object , view Hariv.

लक्षणा f. indication , elliptical expression , use of a word for another word with a cognate meaning (as of " head " for " intellect ") , indirect or figurative sense of a word (one of its three अर्थs ; the other two being अभिधाor proper sense , and व्यञ्जनाor suggestive -ssense ; with सा-रोपा, the placing of a word in its figurative sense in apposition to another in its proper -ssense) Sa1h. Kpr. Bha1sha1p. etc.

लक्षणा f. the female of the Ardea Sibirica(= लक्ष्मणा) Sus3r.

लक्षणा f. a goose Un2. iii , 7 Sch.

लक्षणा f. N. of an अप्सरस्MBh. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Apsaras. वा. ६९. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAKṢAṆĀ I : Daughter of Duryodhana. Wife of Sāmba. (See for details under Sāmba).


_______________________________
*9th word in right half of page 448 (+offset) in original book.

LAKṢAṆĀ II : A celestial maiden. This maiden took part in the birth day celebrations of Arjuna. (Śloka 62, Chapter 122, Ādi Parva, M.B.).


_______________________________
*10th word in right half of page 448 (+offset) in original book.

LAKṢAṆĀ (LAKṢMAṆĀ) III : One of the eight queens of Śrī Kṛṣṇa. Lakṣaṇā was the daughter of Bṛhatsena, King of Madra. (Sṛṣṭi Khaṇḍa, Padma Purāṇa). Śrī Kṛṣṇa got ten sons of her some of whom are Praghoṣa, Gātravān, Siṁha and Bala. (10th Skandha, Bhāga- vata).


_______________________________
*11th word in right half of page 448 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लक्षणा&oldid=436411" इत्यस्माद् प्रतिप्राप्तम्