लगुडः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लगुडः, पुं, दण्डः । लाठी इति भाषा । इत्यमरः ॥ लगुडो वंशादिमयो दण्डः । लोहमयोऽस्त्रभेदः । इति सुभूतिः । लगुडो लोहमयी यष्टिरन्यत्रो- पचारादित्यन्ये । इति तट्टीकायां भरतः ॥ (अस्याकृतिपरिमाणादि यथा, शुक्रनीतौ । “लगुडः सूक्ष्मपादः स्यात् पृथ्वंशः स्थूलशीर्षकः । लौहबद्धाग्रभागश्च ह्नस्वदेहः सुपीवरः ॥ दण्डाकारो दृढाङ्गश्च तथा हस्तद्बयोन्नतः । उत्थानं पातनञ्चैव पेषणं पोथनं तथा ॥ चतस्रो गतयस्तस्य पञ्चमी नेह विद्यते । दृढकायः पत्तिवर्गो तेन युध्येत शत्रुभिः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लगुडः [laguḍḥ] लगुरः [lagurḥ] लगुलः [lagulḥ], लगुरः लगुलः A club, stick, staff, cudgel. -Comp. -हस्तः a staff-bearer.
