सामग्री पर जाएँ

लग्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लग्नम्, क्ली, (लगति फले इति । लग सङ्गे + “क्षुब्ध- स्वान्तध्वान्तलग्नेति ।” ७ । २ । १८ । इति निपातनात् साधु ।) राशीनामुदयः । इत्यमरः ॥ राति फलं राशिस्तालव्यशकारः । अहोरात्र- मध्ये द्वादशराशय उदयन्ति । उदयः पूर्ब्बा- चलसंयोगः । तेषां क्रमेण उदयाचलसंयोगो लग्नं ओ लसजी व्रीडे ओदित्वान्नः निपातना- ज्जस्य गः । इति तट्टीकायां भरतः ॥ तेषां शून्यायनांशपरिमाणं यथा, -- “रामोऽगवेदै -३ । ४७ र्जलधिस्तु मैत्रै -४ । १७ र्व्वाणो रसैः ५ । ६ पञ्च खसागरैश्च ५ । ४० । वाणः कुवेदै -५ । ४१ र्विषयोऽङ्कयुग्मैः ५ । २९ क्रमोत्क्रमान्मेषतुलादिमानम् ॥” तथा हि । मेषस्य ३ । ४७ ॥ तुलायाः ५ । २९ ॥ वृषस्य ४ । १७ ॥ वृश्चिकस्य ५ । ४१ ॥ मिथुनस्य ५ । ६ ॥ धनुषः ५ । ४० ॥ कर्क्कटस्य ५ । ४० ॥ मकरस्य ५ । ६ ॥ सिंहस्य ५ । ४१ ॥ कुम्भस्य ४ । १७ ॥ कन्यायाः ५ । २९ ॥ मीनस्य ३ । ४७ ॥ इति दीपिका ॥ * ॥ दशव्यङ्गुलाधिकपञ्चाङ्गुल- प्रभे कलिकाताख्यदेशे वर्त्तमानोनविंशायनांशे प्रामाणिककारिका यथा, -- “वेदोऽङ्गैः । ४ । ६ सोऽन्तवेदै ४ । ४८ रिषुरगन- यनैः ५ । २७ सोऽन्तरीक्षाम्बुनाथैः ५ । ४० । पारावाराश्रयासै -५ । ३४ र्गगनगनयनैः ५ । २९ षट्त्रिभि -५ । ३६ श्चन्द्रवेदैः ५ । ४१ । अङ्कक्ष्माभिः ५ । १९ समुद्रोऽसुशुचिभि -४ । ३५ रनलोऽष्टेषुभिः ३ । ५८ सोऽगवेदै -३ । ४७ । र्मेषादेकोनविंशे गणितपरिगतं मानमत्रा- यनांशे ॥” * ॥ उदयलग्नास्तलग्नयोर्दिनं प्रति रविभोग्यं यथा, “लग्नदण्डपलं द्विघ्नं तत्संख्यं क्रमतः पलम् । विपलञ्च रवेर्भोग्यमेवं कल्पनमस्तभे ॥” इति ज्योतिषम् ॥ एतयोर्विवरणं यथा, -- तत्र प्राचीनलग्नमानम् । लग्नाः दिनमुक्तम् । मासभुक्तम् । यथा पलम् । विपलम् । दण्डः । पलम् । १ मेषः । ७ । ३४ ॥ ३ । ४७ ॥ २ वृषः । ८ । ३४ ॥ ४ । १७ ॥ ३ मिथुनम् । १० । १२ ॥ ५ । ६ ॥ ४ कर्कटः । ११ । २० ॥ ५ । ४० ॥ ५ सिंहः । ११ । २२ ॥ ५ । ४१ ॥ ६ कन्या । १० । ५८ ॥ ५ । २९ ॥ पञ्चाननो वृषः कुम्भो वृश्चिकः स्युः स्थिराणि हि । कन्या धनुश्च मीनश्च मिथुनं द्विस्वभावतः ॥ द्विस्वभावानि कर्म्माणि कुर्य्यादेषु विचक्षणः । यात्रा चरेण कर्त्तव्या प्रवेष्टव्यं स्थिरेण तु । देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ॥” इति गारुडे ६२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=लग्नम्&oldid=162340" इत्यस्माद् प्रतिप्राप्तम्