लघुबदरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लघुबदरः, पुं, (लघुः क्षुद्रो बदरः ।) क्षुद्रकोलिः । तत्पर्य्यायः । सूक्ष्मफलः २ बहुकरः ३ सूक्ष्म- पत्रः ४ दुस्मर्शः ५ मधुरः ६ दरहारः ७ शिखिप्रियः ८ । इति राजनिर्घण्टः ॥ अस्य फलगुणाः । “कर्क्कन्धुः क्षुद्रबदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रबदरं कषायं कथितं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमा- स्रजित् ॥” इति भावप्रकाशः ॥ अस्य पक्वफलगुणाः । मधुराम्लत्वम् । कफवात- नाशित्वम् । रुच्यत्वम् । स्निग्धत्वम् । जन्तुकारक- त्वम् । ईषत्पित्तार्त्तिदाहशाषघ्नत्वञ्च । इति राजनिर्घण्टः ॥
