लङ्घन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लङ्घनम्, क्ली, (लङ्घ + ल्युट् ।) उपवासः । (यथा, सुश्रुते । १ । ४६ । “तत्रामे लङ्घनं कार्य्यं विदग्धे वमनं हितम् । विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥” यथा च । “लङ्घनं बृंहणं काले रूक्षणं स्नेहनन्तथा । स्वेदनं स्तम्भनञ्चैव जानीते यः स वै भिषक् ॥” “तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् । यत्किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥” “लघूष्णतीक्ष्णविषदं रूक्षं सूक्ष्मं खरं सरम् । कठिनञ्चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ॥” “--पिपासा मारुतातपौ । पाचनान्युपवासाश्च व्यायामश्चेति लङ्घनम् ॥” “प्रभूतश्लेष्मपित्तास्रमलाः सन्दुष्टमारुताः । बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥” “त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहि- नाम् । शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥” इति चरके सूत्रस्थाने द्वाविंशेऽध्याये ॥ “ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् । क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥ आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा- पयन् । विदधाति ज्वरं दोषस्तदा लङ्घनमाचरेत् ॥ अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् । ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥ प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते । कार्य्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्ब्बले ॥ वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे । हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ॥ स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये ॥ कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) क्रमणम् । (यथा, कुमारे । ५ । ६४ । “यथा श्रुतं वेदविदांवर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥”) प्लवनम् । इति मेदिनी । ने, १२० ॥ अग्नि- लङ्घननिषेधो यथा, -- “न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (अतिक्रमः । यथा, महाभारते । १ । १५९ । ३६ । “न चाप्यधर्म्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्म्मः सुमहान् भर्त्तुः पूर्ब्बस्य लङ्घने ॥”) अश्वतृतीयगतिः । यथा, -- “प्लुतन्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।” इति हेमचन्द्रः ॥ * ॥ (स्त्री, अवमानना । यथा, मार्कण्डेये । १३५ । ३३ । “अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या । तां नालं क्षत्त्रियः सोढुं किं पुनः पितृमार- णम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लङ्घन¦ न॰ लघि॰ ल्युट्।
१ अभोजने,
२ अतिक्रम्य गमने,
३ क्रमणे,
४ प्लवने च मेदि॰।
५ कर्षणे चभावप्र॰ लङ्घनस्य लक्षणस्वरूपगुणादिकमुक्तं यथा
“ज्वरी लङ्घनं कुर्य्यादित्याह चरको वाग्भटश्च
“आमा-शयस्थो हत्वाग्निं सामो मार्गान् पिधापयन्। विद-धाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्”। तथा
“ज्वरादौलङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्। ज्वरान्ते भेषजंदद्याज्ज्वरमुक्ते विरेचनम्। त्रिविधं त्रिविधे दोषेतत्समीक्ष्य प्रयीजयेत्। दोषोऽपि लङ्घनं पथ्यं मध्येलङ्घनपाचनम्। प्रभूते शोधनं तच्च मूलादुन्मूलयेन्म-लान्”। चक्रदत्तश्च
“तरुणं तु ज्वरं पूर्वं लङ्घनेनक्षयं नयेत्। आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि। वातः पचति सप्ताहात् पित्तन्तु दशभिर्दिनैः। श्लेष्मा-द्वादशभिर्घस्रैः पच्यते वदतांवर!। लङ्घनं लङ्घनीयन्तुकुर्य्याद्दोषानुरूपतः। त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे। निर्वातसेवनात् स्वेदाल्लङ्घनादुष्णवारिणः। पानादामज्वरे क्षीणे पश्चादौषधमाचरेत्”। आत्रेये-णोक्तम्
“ज्वरादौ लङ्घनं प्राक्तं ज्वरमध्ये तु पाच-नम्। ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम्। दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च। लङ्घितश्चाप्य-दोषश्चेत् यवागूपानमाचरेत्। शालिषष्टिकमुद्गानां यूषंवा शस्तमाचरेत्। पञ्चकोलेन संसिद्धां यवागूं मध्य-लङ्घने। अत्यर्थं लङ्घितं दृष्ट्वा तस्य सन्तर्पणं हितम्। द्राक्षादाडिमखर्जूरपियालैः सपरुषकैः। तर्पणार्हस्यकर्त्तव्यन्तर्पणं ज्वरशान्तये”। अत्र लङ्घनशब्देनानशन-मुच्यते। यत आह सुश्रुतः
“आनद्धस्तिमितैर्दोषैर्यावन्तंका{??}मातुरः। तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत्। आनद्धस्तिमितैर्दोषैः सम्बद्धः। संसर्गम् औषधान्नादि-प्रसङ्गम्”। यत आह चरकः
“चतुःप्रकाराः संशुद्धिःपिपासा मारुतातपौ। पाचनान्युपवासश्च व्यायामश्चेतिलङ्घनम्। चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्”। नि-[Page4821-b+ 38] रूहवस्तिशिरोविरेचनानि नत्वनुवासनं तस्य वृंहण-त्वात्। अत्र लङ्घनं कर्षणमित्यर्थः। सुश्रुतः
“शरीर-लाघवकरं यद्द्रव्यं कर्म वा पुनः। तं लङ्घनमितिज्ञेयं वृंहणं तु पृथग्विधम्”। लङ्घनात्कर्षणादन्यत्शरोरपोषकमित्यर्थः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लङ्घन¦ n. (-नं)
1. Fasting, abstinence.
2. Going, proceeding.
3. Leaping, springing, going by leaps or jumps.
4. Jumping over or beyond.
5. Exceeding, transgressing, disregarding propriety, going be- yond proper bounds.
6. Storming a fort, entering by escalade, &c.
7. Capturing a fort in any way.
8. One of a horse's paces, cur- vetting, bounding.
9. Injury. E. लघि to go, to fast, &c. aff. ल्युट् |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लङ्घनम् [laṅghanam], [लङ्घ्-ल्युट्]
Leaping, jumping.
Going by leaps, traversing, passing over, going, motion in general; यूयमेव पथि शीघ्रलङ्घनाः Ghaṭ.8.
Mounting, ascending, rising up to (fig. also); नभोलङ्घना R.16.33; जनो$यमुच्चैःपदलङ्घनोत्सुकः Ku.5.64 'wishing to attain or aspire to a high position'.
Assulting, storming, capturing; as in दुर्गलङ्घनम्.
Exceeding, going beyond, overstepping, violating, transgression; आज्ञा- लङ्घनम्, नियमलङ्घनम् &c.
Disregarding, despising, treating with contempt, slighting; प्रणिपातलङ्घनं प्रमार्ष्टुकामा V.3; M.3.22.
An offence, affront, insult.
A harm, an injury; as in आतपलङ्घनम् q. v.
Fasting, abstinence; प्रचक्रमे लङ्घनपूर्वकं क्रमः Śi.12.25 (where it menans 'leaping' also).
One of the paces of a horse.
Sexual union, impregnating.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लङ्घन n. the act of leaping or jumping , leaping over , stepping across , crossing , traversing( gen. or comp. ). Pa1rGr2. R. etc.
लङ्घन n. one of a horse's paces , curvetting , bounding L.
लङ्घन n. ( ifc. )rising to or towards , ascending , mounting , attaining Ka1lid.
लङ्घन n. sexual union , impregnating Das3.
लङ्घन n. attack , conquest , capture Ka1v. Pur.
लङ्घन n. transgression , violation , disdain , neglect R. Ra1jat.
लङ्घन n. (also f( आ). )insult , offence , injury , wrong MBh. Ka1v. etc.
लङ्घन n. fasting , hunger , starving system Sus3r.
