सामग्री पर जाएँ

लङ्घनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लङ्घनम्, क्ली, (लङ्घ + ल्युट् ।) उपवासः । (यथा, सुश्रुते । १ । ४६ । “तत्रामे लङ्घनं कार्य्यं विदग्धे वमनं हितम् । विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥” यथा च । “लङ्घनं बृंहणं काले रूक्षणं स्नेहनन्तथा । स्वेदनं स्तम्भनञ्चैव जानीते यः स वै भिषक् ॥” “तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् । यत्किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥” “लघूष्णतीक्ष्णविषदं रूक्षं सूक्ष्मं खरं सरम् । कठिनञ्चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ॥” “--पिपासा मारुतातपौ । पाचनान्युपवासाश्च व्यायामश्चेति लङ्घनम् ॥” “प्रभूतश्लेष्मपित्तास्रमलाः सन्दुष्टमारुताः । बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥” “त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहि- नाम् । शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥” इति चरके सूत्रस्थाने द्वाविंशेऽध्याये ॥ “ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् । क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥ आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा- पयन् । विदधाति ज्वरं दोषस्तदा लङ्घनमाचरेत् ॥ अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् । ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥ प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते । कार्य्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्ब्बले ॥ वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे । हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ॥ स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये ॥ कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) क्रमणम् । (यथा, कुमारे । ५ । ६४ । “यथा श्रुतं वेदविदांवर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥”) प्लवनम् । इति मेदिनी । ने, १२० ॥ अग्नि- लङ्घननिषेधो यथा, -- “न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (अतिक्रमः । यथा, महाभारते । १ । १५९ । ३६ । “न चाप्यधर्म्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्म्मः सुमहान् भर्त्तुः पूर्ब्बस्य लङ्घने ॥”) अश्वतृतीयगतिः । यथा, -- “प्लुतन्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।” इति हेमचन्द्रः ॥ * ॥ (स्त्री, अवमानना । यथा, मार्कण्डेये । १३५ । ३३ । “अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या । तां नालं क्षत्त्रियः सोढुं किं पुनः पितृमार- णम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लङ्घनम् [laṅghanam], [लङ्घ्-ल्युट्]

Leaping, jumping.

Going by leaps, traversing, passing over, going, motion in general; यूयमेव पथि शीघ्रलङ्घनाः Ghaṭ.8.

Mounting, ascending, rising up to (fig. also); नभोलङ्घना R.16.33; जनो$यमुच्चैःपदलङ्घनोत्सुकः Ku.5.64 'wishing to attain or aspire to a high position'.

Assulting, storming, capturing; as in दुर्गलङ्घनम्.

Exceeding, going beyond, overstepping, violating, transgression; आज्ञा- लङ्घनम्, नियमलङ्घनम् &c.

Disregarding, despising, treating with contempt, slighting; प्रणिपातलङ्घनं प्रमार्ष्टुकामा V.3; M.3.22.

An offence, affront, insult.

A harm, an injury; as in आतपलङ्घनम् q. v.

Fasting, abstinence; प्रचक्रमे लङ्घनपूर्वकं क्रमः Śi.12.25 (where it menans 'leaping' also).

One of the paces of a horse.

Sexual union, impregnating.

"https://sa.wiktionary.org/w/index.php?title=लङ्घनम्&oldid=225666" इत्यस्माद् प्रतिप्राप्तम्