सामग्री पर जाएँ

लज्जालुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लज्जालुः, पुं, स्त्री, (लज्जेवास्या अस्तीत्यर्थे आलुः ।) क्षुपविशेषः । तत्पर्य्यायः । रक्तपादी २ शमी- पत्रा ३ स्पृक्का ४ खदिरपत्रिका ५ सङ्कोचिनी ६ समङ्गी ७ नमस्कारी ८ प्रसारिणी ९ सप्त- पर्णी १० खदिरी ११ गण्डमालिका १२ लज्जा १३ लज्जिरी १४ स्पर्शलज्जा १५ अस्र- रोधिनी १६ रक्तमूला १७ ताम्रमूला १८ स्वगुप्ता १९ अञ्जविकारिका २० । इति राज- निर्घण्टः ॥ महाभीता २१ वशिनी २२ महौ- षधिः २३ । इति शब्दचन्द्रिका ॥ अस्या गुणाः । कटुत्वम् । शीतत्वम् । पित्तातिसार- शोफदाहश्रमश्वासव्रणकुष्ठ-कफार्त्तिनाशित्वञ्च ॥ तद्भेदो यथा, -- “लज्जालुर्विपरीतान्या अल्पक्षुपबृहद्वला । वैपरीत्या च लज्जालुर्ह्याभिधाने प्रयोजयेत् ॥ लज्जालुर्वैपरीत्याहुः कटुरुष्णः कफापनुत् । रसे नियामकश्चैव नानाविज्ञानकारकः ॥” इति राजनिर्घण्टः ॥ अन्या हंसपादीशब्दे द्रष्टव्या ॥ * ॥ अपि च । “लज्जालुः स्यात् शमीपत्रा समङ्गाञ्जलि- कारिका । रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि ॥ लज्जालुः शीलता तिक्ता कषाया कफपित्त- जित् । रक्तपित्तमतीसारं योनिरोगान् विनाशयेत् ॥” अत लज्जालुभेदः । “अलम्बुषा खरत्वक् च तथा मेदोगला स्मृता । अलम्बुषा लघुः स्वादुः कृमिपित्तकफापहा ॥” इति भावप्रकाशः ॥ अन्या दुग्धिकाशब्दे द्रष्टव्या ॥

"https://sa.wiktionary.org/w/index.php?title=लज्जालुः&oldid=162425" इत्यस्माद् प्रतिप्राप्तम्