सामग्री पर जाएँ

लतावेष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लतावेष्टः, पुं, (लतयेव आवेष्टो वेष्टनं यत्र ।) षोडशरतिबन्धान्तर्गततृतीयबन्धः । यथा, -- “बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा स्त्रियं रमेत् । लघुलिङ्गताडनं योनौ लतावेष्टोऽयमुच्यते ॥” इति रतिमञ्जरी ॥ * ॥ पर्व्वतविशेषः । यथा, -- “अन्वेषणे निरुद्धस्य चरान् व्यादिष्टवान् तदा । अभ्यन्तरञ्च मार्गध्वं बाह्यतश्च समन्ततः ॥ वेणुमन्तं लतावेष्टं तथा रैवतकं गिरिम् । ऋक्षवन्तं गिरिञ्चैव मार्गध्वं त्वरिता हयैः ॥” इति हरिवंशे वाणयुद्धम् ॥ (पर्व्वतोऽयं द्वारकाया दक्षिणस्यां दिशि स्थितः । यथा, तत्रैव । १५५ । १६ । “दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते । इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः ॥”)

"https://sa.wiktionary.org/w/index.php?title=लतावेष्टः&oldid=162490" इत्यस्माद् प्रतिप्राप्तम्