सामग्री पर जाएँ

लतासाधनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लतासाधनम्, क्ली, (लतया स्त्रिया साधनम् ।) योषिदधिकरणकेष्टदेवताराधनम् । तद्यथा, -- “लतायाः साधनं वक्ष्ये शृणुष्व हरवल्लभे । शतं केशे शतं भाले शतं सिन्दूरमण्डले ॥ स्तनन्द्वन्द्वे शतद्बन्द्वं शतं नाभौ महेश्वरि । शतं योनौ महेशानि उत्थाय च शतत्रयम् ॥ एवं दशशतं जप्त्वा सर्व्वसिद्धीश्वरो भवेत् । अथान्यत् संप्रवक्ष्यामि साधनं भुवि दुर्लभम् ॥ रजोऽवस्थां समानीय तद्योनौ स्वेष्टदेवताम् । पूजयित्वा महारात्रौ त्रिदिनं पूजयेन्मनुम् ॥ शतत्रयञ्च षट्त्रिंशदधिकं प्रत्यहं जपन् । अष्टोत्तरशतं पूर्ब्बं चक्रवक्त्रे जपेद्बुधः ॥ ततस्तां नवभिः पुष्पैर्यजेदष्टोत्तरं शतम् । ततः पूर्णाहुतिं दत्त्वा जपेदष्टोत्तरं शतम् ॥ धनवान् बलवान् वाग्मी सर्व्वयोषित्प्रियङ्करः । षोडशाहेन च भवेत् सत्यं सत्यं न संशयः ॥” इति मायातन्त्रे १२ पटलः ॥ अन्यत् अन्नदाकल्पे १६ पटले गुप्तसाधनतन्त्रे ४ पटले च द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=लतासाधनम्&oldid=162496" इत्यस्माद् प्रतिप्राप्तम्