लभ्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लभ्यम्, त्रि, (लभ्यते इति । लभ् + पोरदुपधात् ।” ३ । १ । ९८ । इति यत् ।) न्याय्यम् । इत्यमरः ॥ लब्धव्यम् । इति मेदिनी । ये, ४३ ॥ (यथा, मुण्डकोपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)
