लम्बकर्णः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लम्बकर्णः, पुं, (लम्बौ कर्णा यस्य ।) छागः । अङ्कोठवृक्षः । इति मेदिनी । णे, १०७ ॥ राक्षसः । हस्ती । इति शब्दरत्नावली ॥ श्येन- पक्षी । इति राजनिर्घण्टः ॥ (शशः । तद्यथा, अथ विलेशयेषु तत्र शशः स्यात् । “लम्बकर्णः शशः शूली लोमकर्णो विले- शयः ॥” इति वैद्यकम् ॥ लम्बःकर्णः इति कर्म्मधारये ।) दीर्घश्रोत्रम् ॥ तद्युक्ते, त्रि । (यथा, महाभारते । ९ । ४६ । ३४ । “लम्बोदर्य्यो लम्बकर्णास्तथा लम्बपयोधराः ॥”)
