लम्बकेशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लम्बकेशः, पुं, (लम्बः केश इवाग्रभागो यस्य ।) विष्टरः । स तु विवाहकाले वरोपवेशनार्थं सार्द्धद्वितयवामावर्त्तवलिताधोमुखा असंख्यात- दर्भाः । यथा, -- “ऊर्द्धकेशो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको ब्रह्मा वामार्त्तस्तु विष्टरः ॥” इति संस्कारतत्त्वम् ॥ केशोऽत्राग्रम् । इति प्रायश्चित्ततत्त्वे गङ्गा- माहात्म्ये प्रतिनिहतदर्भवटुस्नानप्रकरणे लिखि- तम् ॥ * ॥ दीर्घकेशयुक्ते, त्रि ॥
