सामग्री पर जाएँ

ललितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ललितः, पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि क्तः ।) रागविशेषः । तस्य स्वरूपं यथा, -- “प्रफुल्लसप्तच्छदमाल्यधारी युवातिगौरोऽलसलोचनश्रीः । विनिःसरन् वासगृहात् प्रभाते विलासिवेशो ललितः प्रदिष्टः ॥” तस्य गानसमयो यथा, -- “प्रातर्गेयास्तु देशागो ललितः पठमञ्जरी । विभाषा भैरवी चैव कामोदो गोण्डकीर्य्यपि ॥” इति सङ्गीतदामोदरः ॥

ललितः, त्रि, (लल + क्तः ।) सुन्दरः । (यथा, रघुः । ८ । १ । “अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः ॥”) ईप्सितः । इति मेदिनी । ते, १४७ ॥ चलितः । इति बिश्वशब्दरत्नावल्यौ ॥

"https://sa.wiktionary.org/w/index.php?title=ललितः&oldid=162589" इत्यस्माद् प्रतिप्राप्तम्