ललितम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ललितम्, क्ली, (लल + क्तः ।) शृङ्गारभावजक्रिया- विशेषः । इत्यमरः ॥ सुकुमारविधानेन भ्रू- नेत्रादिक्रियासचिवकरचरणाङ्गविन्यासो ललि- तम् । तथा च । “सुकुमाराङ्गविन्यासे मसृणा ललितं भवेत् ॥” तथा, -- “सभ्रूभङ्गं करकिशलयावर्त्तनैरापतन्ती सा लिम्पन्ती ललितललिता लोचनस्याञ्जनेन । विन्यस्यन्ती चरणकमले लीलया स्वैरयाते निःशङ्का च प्रथमवयसा नर्त्तिता पङ्कजाक्षी ॥ भ्रूनेत्रादिक्रियाशालिसुकुमारविधानतः । हस्तपादाङ्गविन्यासस्तरुण्या ललितं विदुः ॥” इत्यन्येऽपि ॥ “अनाचार्य्योपदिष्टं स्याल्ललितं रतिचेष्टितम् ।” इत्यन्ये । ललत् केप्से भावे क्तः । लड विलासे इत्यस्य मनीषादित्वात् डस्य लत्वं वा । इति भरतः ॥ अपि च । “विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहरा । सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥” इत्युज्ज्वलनीलमणिः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ललितम् ind. 181619
