ललितासप्तमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ललितासप्तमी, स्त्री, (ललिताख्या सप्तमी ।) भाद्रशुक्लसप्तमी । तत्र कुक्कुटीव्रतं कार्य्यम् । यथा भविष्ये । “भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या । स्नात्वा शिवं लेस्वयित्वा मण्डले च सहाम्बिकम् । बभूव सुप्रजा साध्वी ईश्वरी भुवनेश्वरी । व्रतस्यास्य प्रभावेन सुपुत्त्रा त्वञ्च देवकि ! ॥ भविष्यसि त्रिलोकेशं पुत्त्रञ्च जनयिष्यसि । इत्येवं श्रावयित्वा च विरराम मुनिस्तदा ॥ जगाम स्वपुरं पार्थ मयाप्येवं तवोदितम् । याः स्त्रियः स्वाचरिष्यन्ति व्रतमेतद्युधिष्ठिर ॥ कुक्वुटाख्यं प्लवङ्गाख्यं देवक्याचरितं शुभम् । तासां सन्ततिविच्छेदो न कदाचिद्भविष्यति ॥ स्त्रियश्चैवाचरिष्यन्ति व्रतमेतत् सुखप्रदम् । अस्मिन् लोके सुखं भुक्त्वा यास्यन्ति शिवमन्दि- रम् ॥ या कुक्कुटीव्रतमिदं प्लवगीसमेतं देवं विभाव्य हृदये च गुरुं निधाय । भक्त्या करोति कलुषौधविघातदक्षं साध्वी सदा भवति शोभनजीववत्सा ॥” इति भविष्यपुराणे कुक्कुटीव्रतकथा समाप्ता ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ललितासप्तमी¦ स्त्री ललिताप्रिया सप्तमी। ललितापूजाङ्गे
१ भाद्रशुक्लसप्तम्याम्, तद्दिनकर्त्तव्ये
२ व्रतभेदे च।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ललितासप्तमी¦ f. (-मी) The seventh day of the first-half of Bha4drapada.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ललितासप्तमी/ ललिता--सप्तमी f. N. of the 7th day in the light half of the month भाद्रL.