सामग्री पर जाएँ

लवणधेनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लवणधेनुः, स्त्री, (लवणनिर्म्मिता धेनुः ।) दानार्थ- लवणादिनिर्म्मितधेनुः । तद्विवरणं यथा, -- होतोवाच । “लवणधेनुं वक्ष्यामि तां निबोध महीपते । अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥ धेनुं लवणमयीं कृत्वा षोडशप्रस्थसंयुताम् । वत्सं चतुर्भी राजेन्द्र इक्षुपादांश्च कारयेत् ॥ सौवर्णमुखशृङ्गाणि खुरा रौप्यमयास्तथा । मुखं गुडमयं तस्या दन्ताः फलमया नृप ! ॥ जिह्वां शर्करया राजन् घ्राणं गन्धमयन्तथा । नेत्रे रत्नमये कुर्य्यात् कर्णौ पत्रमयौ तथा ॥ श्रीखण्डं शृङ्गकोटौ च नवनीतमयाः स्तनाः । सूत्रपुच्छां ताम्रपृष्ठां दर्भरोम्णीं पयस्विनीम् ॥ कांस्योपदोहां राजेन्द्र घण्टाभरणभूषिताम् । सुगन्धपुष्पधूपैश्च पूजयित्वा विधानतः । आच्छाद्य वस्त्रयुग्मेन ब्राह्मणाय निवेदयेत् ॥ ग्रहणे वाथ संक्रान्तौ व्यतीपाते तथायने । नक्षत्रग्रहपीडासु सर्व्वकालं प्रदापयेत् ॥ द्विजाय साधुवृत्ताय कुलीनाय च धीमते । वेदवेदाङ्गविदुषे श्रोत्रियायाहिताग्नये ॥ ईदृशाय प्रदातव्या तथामत्मरिणे नृप ! । जमव्यमेव मन्त्रन्तु पुच्छदेशोपरिस्थितः ॥ छत्रकोपानहौ देयौ मुद्रिकापर्णपत्रके । आच्छाद्य वस्त्रयुग्मेन दक्षिणां कनकं ददेत् ॥ पूर्ब्बोक्तेन विधार्नन स्वशक्त्या कनकेन तु । इमां गृहाण भो विप्र रुद्ररूपे नमोऽस्तु ते ॥ रसज्ञा सर्व्वभूतानां सर्व्वदेवनमस्कृता । कामं कामदुघे कामा क्षारधेनो नमोऽस्तु ते ॥ दत्त्वा धेनुं लवणेन एकाहश्चैव तिष्ठति । स्वयं त्रिरात्रं विप्रेण तथैव लवणाशिना ॥ सहस्रेण शतेनाथ स्वशक्त्या कनकेन तु । दत्त्वेमां स्वर्गमाप्नोति यत्र देवो वृषध्वजः ॥ य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः । मुच्यते सर्व्वपापेभ्यो रुद्रलोकञ्च गच्छति ॥” इत्यादि वाराहपुराणे श्वेतोपाख्याने लवणधेनु- माहात्म्यम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लवणधेनु¦ स्त्री दानार्थं कल्पितायां लवणनिर्मितायां धेनौवराहपु॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लवणधेनु/ लवण--धेनु f. an offering of salt , a cow symbolically represented with salt Cat.

"https://sa.wiktionary.org/w/index.php?title=लवणधेनु&oldid=227213" इत्यस्माद् प्रतिप्राप्तम्