लवणाचलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लवणाचलः, पुं, (लवणनिर्म्मितः अचलः ।) दानार्थ- लवणादिनिर्म्मितपर्व्वतः । यथा, -- “अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् । यत्प्रदाता नरो लोकं प्राप्नोति शिवसंयुतम् ॥ उत्तमः षोडशद्रोणः कर्त्तव्यो लवणाचलः । मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः ॥ वित्तहीनो यथाशक्त्या द्रोणादूर्द्धन्तु कारयेत् । चतुर्थांशेन विष्कम्भान् पर्व्वतान् कारयेत् पृथक् ॥ विधानं पूर्ब्बवत् कुर्य्यात् ब्रह्मादीनाञ्च सर्व्वदा । तद्बद्धेमतनून् सर्व्वान् लोकपालान्निवेशयेत् ॥ सरांसि कामदेवादींस्तद्बच्चात्र निवेशयेत् । कुर्य्याज्जागरमत्रापि दानमत्र निबोधत ॥ सौभाग्यरससम्भूतो यतोऽयं लवणो रसः । तदात्मकत्वेन च मां पाहि पापान्नगोत्तम ॥ यस्मादन्नरसाः सर्व्वे नोत्कटा लवणं विना । प्रियञ्च शिवयोर्नित्यं तस्मात् शान्तिप्रदो भव ॥ विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्द्धनम् । तस्मात् पर्व्वतरूपेण पाहि संसारसागरात् ॥ अनेन विधिना यस्तु दद्याल्लवणपर्व्वतम् । उमालोके वसेत् कल्पं ततो याति परां गतिम् ॥” इति मात्स्ये ७७ अध्यायः ॥
